________________
नयरहस्यप्रकरणम् ।
१४७
vvvvvvvww.
विद्यमाननाशप्रतियोगित्वाद् वा । अथ तत्रातीतत्वं वर्तमानत्वं च कृत्प्रत्ययार्थोत्पत्तावेवान्वेतीति न दोष इति चेत्, न-उक्तनियमभङ्गप्रसङ्गात् । धातुत्व-प्रत्ययत्वादेर्नानात्वात् तन्नियमस्य विशिष्य विश्रान्तिरिति चेत् , न-अन्ततो जातस्येदानीमपि वर्तमानस्य विद्यमानो यो भूतकालस्य नाशस्तत्प्रतियोगी भूतकालस्तवृत्तित्वमस्तीत्युक्तातीतत्वयोग एव, तथाऽपीडशातीतत्वं विद्यमानघटेऽपि समस्ति, यतो विद्यमानो ध्वंसः पूर्वकालस्य ध्वंसस्तत्प्रतियोगी पूर्वकालम्तवृत्तित्वस्य तत्र सत्त्वात्, अतस्तादृशकालमात्रवृत्तित्वं विवक्षणीयम् , तच्च यथा न वर्तमानघटे तथा नोक्तध्वंसेऽपीत्याशयः। यदि च मात्रार्थमनिवेश्यैव तत्रातीतत्वमुपपाद्यते तदा पूर्वजातोऽपि ध्वंसो विद्यमानकालवृत्तित्वाद् वर्तमान इति तत्प्रतियोगित्वाद् विनष्टस्यापि घटस्य विनश्यमानत्वं स्यादित्याह-नष्टेऽपि घट इति । यस्य घटस्य नाशः पूर्वमेव जातः स एव विनष्ट इत्युच्यते तन्नाशस्योत्पादो न वर्तमानवृत्तीति विद्यमानकालोत्पत्तिकनाशप्रतियोगित्वाभावान नष्टघटे नश्यन् घट इति प्रयोगापत्तिः, अतीतकालोत्पत्तिकध्वंसप्रतियोगित्वाभावान्न नश्यद्धटे न नष्टो घट इति प्रयोगापत्तिश्चेति शङ्कते-अथेति। समाधत्त-नेति। उक्तनियमभङ्गप्रसङ्गात् प्रत्ययार्थोत्पत्तौ प्रत्ययार्थस्य वर्तमानत्वस्यातीतत्वस्य चान्वयाभ्युपगमे, विशेष्यतासम्बन्धेन धातूत्तरप्रत्ययजन्यकालप्रकारकबोघं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितिः कारणमिति कार्यकारणभावमूलकस्य प्रत्ययार्थवर्तमानत्वातीतत्वयोर्धात्वर्थ यान्वय इति नियमस्य भङ्गापत्तेः। न च तत्तद्धातूत्तरप्रत्ययजन्यकालकारकबोध एव समानविशेष्यत्वप्रत्यासत्या तत्तद्धातुजन्योपस्थितहतुत्वमिति विशिष्यैव कार्य-कारणभावः, धातुत्व-प्रत्ययत्वयोरनुगतत्वाभावेन सामान्यकार्य-कारणभावाभावात् , तथा चोक्तकार्यकारणभावमूलकनियमोऽपि विशिष्य विश्रान्त एवेति नोक्तदोष इत्याशङ्कते तत्व-प्रत्ययत्वादेरिति । तन्नियमस्य धात्वर्थ एव प्रत्ययार्थकालान्वय इति निगमस्य।