________________
प्रमोदाविवृतिसंवलितं
जानातीति प्रयोगप्रसङ्गः, न चैवमारम्भसमये पचतीति प्रयोगो न स्यात् तदा पाकाभावादिति वाच्यम्, स्थूलकालमादाय तत्समाधानात् तस्मात् क्रियमाणं कृतमि-त्यन्वयानुपपत्तिरिति चेत्, न एवं सत्यारम्भकाल इव तत्पूर्वकालेऽप्येकस्थलकालसम्भवेन पचतीति प्रयोगप्रसङ्गाद् व्यवहारानुकूल प्रयोगादरस्य वस्त्वसाधकत्वात्, अन्यथा, 'पुरुषो व्याघ्रः' इति प्रयोगात् पुरुषस्यापि व्याघ्रत्वप्रसङ्गः । किञ्च, एवं 'नष्टो घटः', 'नश्यन् घटः' इत्यादिप्रयोगव्यवस्थायां तव का गतिः?, नाशस्योक्तातीतत्वायोगात्, नष्टेऽपि घटे प्रयोगप्रसङ्ग इत्यर्थः । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । एवं प्रत्ययार्थस्य वर्तमानत्वादेर्धात्वर्थ एवान्वयाभ्युपगमे। आरम्भसमये पाकारम्भकाले । तदा पाकारम्भकाले । पाकारम्भक्षणमारभ्य यावता कालेन पाको निष्पद्यते तावान् सर्वोऽपि कालः पाकाधिकरणतया विवक्ष्यते स च सूक्ष्मरूपेणानेकोऽपि, स्थूलरूपेणेक एव तादृशवर्तमानकालश्च पाकारम्भसमयादरभ्य पाकपरिसमाप्तिं यावदेक एवेति तद्वृत्तित्वात् पाकारम्भसमयेऽपि पचतीति प्रयोगः स्यादेवेति समाधत्ते - स्थूलकालनादायेति । तत्समाधानात् पाकारम्भसमये पचतीति प्रयोगसम्भवात् । शङ्किता स्वाभिप्रेतमुपसंहरति-तस्मादिति । समाधत्ते - नेति । एवं सति स्थूलकालमुपादाय पाकारम्भकाले पचतीति प्रयोगस्योपपादने । तत्पूर्वकालेsपि आरम्भकालात् पूर्वकालेऽपि । ननु पाकारम्भपूर्वकाले पचतीति न व्यवहियत इति न तत्कालव्यापिस्थूलकालमुपादीयते, पाकारम्भकाले तु भवति तथाव्यवहार इति तत्कालव्यापिस्थूल कालमुपादाय तथाव्यवहारसम्भव इत्यत आह-व्यवहारानुकूल प्रयोगादरस्येति । अन्यथा व्यवहारानुकूल प्रयोगतोऽपि वस्तुसिद्धयभ्युपगमे । उक्तातीतत्वायोगात् यद्यपि
नाशस्य पूर्वमेव
१४६