SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ११० प्रमोदाविवृतिसंवलितं - - vvvvvvvvvvwwwmom अथासतोऽभावाश्रयत्वमभावप्रतियोगित्वं च भावधर्मरूपं न सम्भवतीति न तनिषेधो युक्तः। शशशृङ्गमस्ति न वेलि पृच्छतो धर्मिवचनव्याघातेनैव निग्रहात् तत्रान्यतराभिधानेनोभयनिषेधेन तूष्णीम्भावेन वा परा. बाधितार्थस्थले भ्रमाऽनभ्युपगन्ता प्रभाकरः पदार्थद्वयसंसर्गबोधस्य प्रमाऽऽत्मकस्यासम्भवात् तयोरसंसर्गस्याग्रह पवेत्यभ्युपगन्ताऽपि अबाधिताथस्थले पदार्थयोरत्यन्तमसन योऽसंसर्गस्तस्याग्रह पदार्थद्वयसंसर्गबोधलमनुगतं वदतीति तदर्थः। ननु "व्यावाभाववत्तैव भाविकी हि विशेष्यता। अभावविरहात्मत्वं वस्तुनः प्रतियोगिता" ॥२॥ इति वचनादत्यन्ताऽसतः खरविषाणादेर्भावधर्मस्य प्रतियोगित्वाश्रयत्वादेन सम्भव इत्यभावप्रतियोगित्वलक्षणमसत्त्वं न सम्भवतीति न यथाशुतार्थसम्भव इत्याशङ्कते-अथेति । असत्त्वमभावात्मकधर्मविशेष एवेत्यभिप्रेत्योक्तम्-अभावाश्रयत्वमिति । किञ्चिन्निष्ठात्यन्ताऽभावप्रतियोगित्वमसत्त्वमित्यभिप्रेत्योक्तम्-अभावप्रतियोगित्वमिति । भावधर्मरूपमिति-भाव एव वर्तते, खरशृङ्गादिस्तु तुच्छत्वादभावरूप एवेति न तत्र तस्य सम्भव इत्यभिसन्धिः । तन्निषेधः खरशङ्गमसदित्येवंरूपेण खरशुङ्गनिषेधः । ननु यदि खरशङ्गादेरसतो निषधो न सम्भवति तर्हि तस्य खरबाङ्गमस्तीत्येवंरूपेण विधानमपि न सम्भवति विधेरपि भावधर्मवाद , एवं च खरशङ्गमस्ति नवेति पृष्टो यद्यस्तीति ब्रूयानास्तीति वा वयादुभयथाऽप्ययुक्तभाषित्वान्निगृहीतः स्यात, यदि न किञ्चिद्वयात् तदापि प्रश्नोत्तराऽदानादवचनेनैव निगृहीतः स्यादित्यत आह-शशशृङ्गमस्तीति-विधौ निषेधे च शशशृङ्गमित्येव धर्मिवचनम् , तच्चार्थशून्यमित्यतः कोऽपि धर्मी नोपात्त इति कस्यास्तित्वं नास्तित्वं वा पृच्छाविषयः स्यादिति धभिवचनव्याघातात् प्रष्टैव निगृहीत इति निगृहीतस्य कथायां पुनरुत्थानाऽसम्भवात् तत्र प्रतिवादी किमयुत्तरं कथयतु, तूष्णीं वा भवतु नोभयथाऽपि तस्य पराजयाभावादिति समुदितार्थः। तत्र धर्मिवचनव्याघातेन निगृहीते प्रष्टरि। अन्यतराभिधानेन अस्तित्व-नास्तित्वयो
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy