________________
नयरहस्यप्रकरणम् ।
न- एतस्यार्थस्यास्वारसिकत्वात् । तथाप्ययोग्यतानिश्चये कथं स्वारसिको यथाश्रुतार्थबोध इति चेत् , रूपकादिस्थल इवाहाययोग्यतानिश्चयात् , विकल्पात्मकज्ञाने तस्याप्रतिबन्धकत्वाद् वा। तथा चोक्तं श्रीहर्षेणापि[खाद्यखण्डने]-- "अत्यन्तासत्यपि ह्यर्थ ज्ञानं शब्दः करोति हि । अबाधात् तुप्रमामत्र स्वतःप्रामाण्यनिश्चलाम्"॥१॥इति। न सम्भवतीति समाधत्ते-नेति । एतस्य खरवृत्त्यभावप्रतियोगि शृङ्गमित्येवंरूपस्य । शङ्कते-तथापीति-निरुक्तार्थस्याऽस्वारसिकत्वेऽपीत्यर्थः। खरशृङ्गस्याऽसिद्धया तत्र कस्यापि धर्मस्याभावान्न तत्राऽसत्त्ववत्त्वमिति तदभावनिश्चयलक्षणाऽयोग्यतानिश्चयस्य प्रतिवन्धकस्य सद्भावात् खरशृङ्गमसदिति वाक्यात् स्वारसिकः खरशृङ्गविशेष्यकाऽ. सत्वप्रकारकवोधो न भवितुमर्हतीत्यतः खरवृत्यभावप्रतियोगित्व. प्रकारक-शृङ्गविशेष्यकवोध एवाऽगत्योपेय इत्याशयः। मुखं चन्द्र इत्यादी मुखं न चन्द्र इत्यादिबानिश्चयेऽप्याहार्ययोग्यतानिश्चयतः शाब्दबोध उपजायते तथा प्रकृतेऽपि स्वारसिको यथाश्रुतार्थबोध आहार्ययोग्यतानिश्चयतः स्यादेवेति समाधत्ते-रूपकादिस्थल इति । अथवा खरशृङ्गमसदिति वाक्याद् विकल्पाऽऽत्मकबोध एवोपजायते, तत्र च नायोग्यतानिश्चयः प्रतिबन्धक इति तस्मिन् सत्यपि स स्यादेवेत्याह-विकल्पाऽऽत्मकज्ञान इति। तस्य अयोग्यतानियस्य ! अयोग्यऽप्यर्थे शब्दाज्ज्ञानमुपजायत इत्यत्र खाद्यखण्डनक: श्रीहर्षमिश्रस्य सम्मतिमुपदर्शयति-तथा चोक्तमिति । अत्यन्तेति-शब्दोऽत्यन्तासत्ययथ ज्ञानं करोति। अत्र अर्थे । अबाधात् अन्वपिनोऽर्थस्थाभावनिश्चयाभावात् , तु पुनः स्वतः प्रामाण्यनिश्चलां प्रमा करोतीयः । एतदनन्तरमयमांप श्लोकः खाद्यखण्डने
'असंसर्गाग्रहस्यापि मन्ता संशीत्यबाधिते । अत्यन्तासदसंसर्गाग्रहं संसर्गलग्नकम्" ॥१॥ इति ।