Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 177
________________ १२८ प्रमोदाविवृतिसंवलितं निक्षेप एवाभिभतः ॥५॥ "असंक्रमगवेषणपरोऽध्यवसायविशेषः समभिरूढ: " "वत्थूओ संक्रमणं होई अवत्थूणए समभिरूढे त्ति" [२१८५] सूत्रम् | 'सत्स्वर्थेष्वसङ्क्रमः समभिरूढ इति तत्त्वार्थ भाष्यम् [१,३५ ] | तत्त्वं च यद्यपि न संज्ञाभेदेनार्थभेदाभ्युपगन्तृत्वम्, घटपटादिसंज्ञा भेदेन नैगमादिभिरप्यभ्युपगमात् तथापि संज्ञा भेदनियतार्थ भेदाभ्युपगन्तृत्वं र्थभेदातत् । एवम्भूतान्यत्वविशेषणाच्च न तत्रातिव्याप्तिः । अयं खल्वस्याभिमानः यदुत, यदि शब्दो लिङ्गादिभेदेनार्थभेदं प्रतिपद्यते तर्हि संज्ञाभेदेनापि किमित्यर्थभेदं 1 अथ समभिरूढनयं प्ररूपयति असमेति- 'असङ्क्रमगवेपणपरोऽध्यवसायविशेषः' इति लक्षणम्, 'समभिरूढः' इति लक्ष्यम् । समभिरूढस्यासङ्क्रमणगवेपणापरत्वे सूत्रं प्रमाणयति वत्युओ इति - " वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे" इति संस्कृतम् । तत्त्वार्थभाष्यमपि तत्र प्रमाणतयोपदर्शयति- सत्स्वर्येष्विति । एतावताऽतिव्याप्त्यादिदोषविकलं समभिरूढस्य लक्षणं किमभिमतमित्यपेक्षयामाह-तत्त्वं चेति-समभिरूढत्वं चेत्यर्थः । संज्ञाभेदनियतेति - नैगमादिनये घट - कुम्भादिसंज्ञाsपि घटरूपार्थ एक एवेति न संज्ञाभेदनियतोऽर्थभेद इति न संज्ञाभेदनियतार्थ मेदाभ्युपगन्तृत्वं नैगमादिनय इति न तत्रातिव्याप्तिः । तत् समभिरूढनयत्वम् । व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं यथा समभिरू नये तथैवम्भूतनयेऽपीति संज्ञाभेदनियतार्थमेदाभ्युपगन्तृत्वस्यैवम्भूतनये सत्त्वादतिव्याप्तिः, तद्दारणार्थमेवम्भूतनयत्वे सति संज्ञाभेदनियतार्थ मेदाभ्युपगन्तृत्वं तलक्षणं सत्यन्तविशेषणसंवलितमित्याह--एवम्भूतेति । तंत्र एवम्भूतनये । समभिरूडनयमन्तव्यमुप| दर्शयति- अयमिति - 'यदुत' इत्यादिनाऽनन्तरमेवाभिधीयमान इत्यर्थः।

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242