Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 189
________________ प्रमोदाविवृतिसंवलितं क्रियानये स्वविषयसमवधाननियतेतरविषयसमवधानं विशेषः, इति चेत् , न- चरमकारणीभूतक्रियाजनकज्ञानविषयत्वात् ज्ञाननयस्यापि विशेषात् । क्रियानये कार्योपयिको विशेषः, ज्ञाननये तु व्यवहारोरयिक इति चेत् , न- ज्ञाननयविशेषस्थापि परम्परया कार्योपयिकत्वात् , पारम्पर्यानन्तर्ययोर्विशेषश्वेच्छामात्रादेवेत्युक्तम् । अत एव 'इतरकारणविशिष्टं चरमकारणं सामग्री' इति सामग्रीलक्षणमन्यत्र निराकृतम् , विनिगमनाविरहात् । न च विशेषमाशङ्कते-क्रियानय इति- एवम्भूतनय इत्यर्थः । एवम्भूतनये क्रियायाः प्राधान्यात् क्रियानयत्यं बोध्यम् , ततो ज्ञाननये विशेषोपदर्शनेन समाधते-नेति । विशेषेऽपि विशेषमाशङ्कते-क्रियानय इति । उक्तविशेषस्योभयत्र समानत्वेन न विशेषकत्वमिति समाधत्ते-नज्ञाननयविशेषस्याऽपीति। पारम्पर्यानन्तर्यकृतविशेषस्येच्छामात्रशरणत्वेन न विशेषकत्वरित्याह-पारम्पयति । 'अत एव' इत्यस्य 'निराकृतम्' इत्यनेन सम्बन्धः, अत एव इच्छामात्रशरणत्वादेव । इच्छामात्रशरणत्वेन विनिगमनाविरह एबोपदर्शितो भवतीत्याह-विनिगमनाविरहादितिइतरकारणविशिष्टं चरमकारणं सामग्री. चरमकारणविशिष्टानीतरकारणानि वा सामग्रीत्यत्र विनिगमकस्य कस्यचिदभावाद् द्वितीयपक्षाश्रयणे परम्पराकारणस्यापि प्राधान्य सम्भवादित्याशयः। न च चरमकारणस्य साक्षादेव सम्बन्धः कारणत्वावच्छेदकसम्बन्धः, परम्पराकारणस्य तु स्वजन्यव्यापारबत्त्वादिस्तथेति सम्बन्धलाघवमितरकारणविशिष्टं चरम कारणं सामग्रीत्यत्र विनिगमकमित्याशङ्कय प्रतिक्षिपति-न चेति। चरमकारणे इतरकारणवैशिष्टयं सामानाधिकर'ण्यसम्बन्धेन, तत्र चेतरकारणस्याधिकरणता परम्परासम्बन्धरूपकारणतावच्छेदकसम्बन्धावच्छिन्नैव निविष्टेति सम्वन्धघटकतया तद्ग्रहस्यावश्यकत्वे सम्बन्धलाघवासिद्धेरिति प्रतिक्षेपहेतुमुपन्यस्यति-विशेष्य इवे

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242