________________
प्रमोदाविवृतिसंवलितं
क्रियानये स्वविषयसमवधाननियतेतरविषयसमवधानं विशेषः, इति चेत् , न- चरमकारणीभूतक्रियाजनकज्ञानविषयत्वात् ज्ञाननयस्यापि विशेषात् । क्रियानये कार्योपयिको विशेषः, ज्ञाननये तु व्यवहारोरयिक इति चेत् , न- ज्ञाननयविशेषस्थापि परम्परया कार्योपयिकत्वात् , पारम्पर्यानन्तर्ययोर्विशेषश्वेच्छामात्रादेवेत्युक्तम् । अत एव 'इतरकारणविशिष्टं चरमकारणं सामग्री' इति सामग्रीलक्षणमन्यत्र निराकृतम् , विनिगमनाविरहात् । न च विशेषमाशङ्कते-क्रियानय इति- एवम्भूतनय इत्यर्थः । एवम्भूतनये क्रियायाः प्राधान्यात् क्रियानयत्यं बोध्यम् , ततो ज्ञाननये विशेषोपदर्शनेन समाधते-नेति । विशेषेऽपि विशेषमाशङ्कते-क्रियानय इति । उक्तविशेषस्योभयत्र समानत्वेन न विशेषकत्वमिति समाधत्ते-नज्ञाननयविशेषस्याऽपीति। पारम्पर्यानन्तर्यकृतविशेषस्येच्छामात्रशरणत्वेन न विशेषकत्वरित्याह-पारम्पयति । 'अत एव' इत्यस्य 'निराकृतम्' इत्यनेन सम्बन्धः, अत एव इच्छामात्रशरणत्वादेव । इच्छामात्रशरणत्वेन विनिगमनाविरह एबोपदर्शितो भवतीत्याह-विनिगमनाविरहादितिइतरकारणविशिष्टं चरमकारणं सामग्री. चरमकारणविशिष्टानीतरकारणानि वा सामग्रीत्यत्र विनिगमकस्य कस्यचिदभावाद् द्वितीयपक्षाश्रयणे परम्पराकारणस्यापि प्राधान्य सम्भवादित्याशयः। न च चरमकारणस्य साक्षादेव सम्बन्धः कारणत्वावच्छेदकसम्बन्धः, परम्पराकारणस्य तु स्वजन्यव्यापारबत्त्वादिस्तथेति सम्बन्धलाघवमितरकारणविशिष्टं चरम कारणं सामग्रीत्यत्र विनिगमकमित्याशङ्कय प्रतिक्षिपति-न चेति। चरमकारणे इतरकारणवैशिष्टयं सामानाधिकर'ण्यसम्बन्धेन, तत्र चेतरकारणस्याधिकरणता परम्परासम्बन्धरूपकारणतावच्छेदकसम्बन्धावच्छिन्नैव निविष्टेति सम्वन्धघटकतया तद्ग्रहस्यावश्यकत्वे सम्बन्धलाघवासिद्धेरिति प्रतिक्षेपहेतुमुपन्यस्यति-विशेष्य इवे