________________
नयरहस्यप्रकरणम् ।
१३९
नित्यत्वादिपराकरणमेकान्तानुप्रवेशादप्रमाणम् , तथापि परेषां तर्क इव प्रमाणानां स्वरुचिविशेषरूपाणामनुग्राहकत्वादुपयुज्यत इति सम्भाव्यते, तत्त्वं तु बहुश्रुता विदन्ति । एतेषु च बलवत्त्वाबलवत्त्वादिविचारेऽपेक्षैव शरणम् , निश्चय-व्यवहाराभिमतकारणानामानन्तय-पार. म्पर्यव्यवस्थितानामप्यपेक्षाऽविशेषात् , पूर्वेण परस्योपक्षयाद् विशेष इति चेत् , न-इच्छामात्रशरणत्वात् ।
चेत्यर्थः। परेषां नैयायिकादीनाम् । तर्को यथा प्रमाणानामनुग्राहकत्वादुपयुज्यते तथा स्वरुचिविशेषरूपाणां नयानामनुग्राहकत्वान्नित्यत्वादिपराकरणमुपयुज्यते, नहि प्रमाणमेवात्रानुग्राहकमिति नियमस्तथा सति आहार्यारोपरूपस्य तर्कस्यापि प्रमाणानुग्राहकत्वं परसम्मतं न स्यादिति नित्यत्वादिनिराकरणस्याप्रमाणस्यापि नयानुग्राहकत्वं न दुष्टमित्याशयः। एतेषां बलवत्त्वाऽबलवत्त्वादिवित्रारोऽप्यपेक्षात एव, ततश्चैको नय एकनयापेक्षया बलवानप्यन्यनयापेक्षया दुर्वल इत्येकत्रापि नये आपेक्षिके बलवत्त्वाऽबलवत्वे न विरुद्ध इत्याह-एतषु चेति । यच्चानन्तर्यण कारणं यच्च पारम्पर्येण कारणं तयोरपि कारणत्वमविशिष्टमेव, अपेक्षाया अविशेषादित्याह निश्चयेतिनिश्चयनये यदेवाव्यवहितपूर्ववर्ति तदेव कारणमिति तस्यानन्तर्यव्यवस्थितत्वम् , व्यवहारनये व्यवहितपूर्ववर्त्यपि कारणतया व्यवह्रियमाणत्वात् कारणं भवत्येवेति तस्य पारम्पर्थव्यवस्थितत्वमिति शङ्कते-पूर्वेणेति-पूर्वणानन्तरकारणेनापरस्य परम्पराकारणस्य। व्यापारेण व्यापारिणोऽन्यथासिद्धिरित्युपगम एवानन्तरकारणेन परम्पराकारणस्यान्यथासिद्धिरिति स्वेच्छापरिकल्पितनियमत एच, एवं च , व्यापारिणा व्यापारस्यान्यथासिद्धिरिति नियमोऽपीच्छया किं न स्यादिति समाधत्ते-न इच्छामात्रशरणत्वादिति। ज्ञाननयात् क्रियानये