________________
१३८
प्रमोदाविवृतिसंवलितं
गृह्यत एवम्भूतेन, कथं तर्हि भावप्राणयोगाद् भवतामपि सिद्धस्य जीवत्वं मलयगिरिप्रभृतिभिरुक्तमिति चेत् ?, भावपञ्चकग्राहिनेगमाद्यभिप्रायेणेति गृहाण, अत एव प्रज्ञापनादौ जीवनपर्यायविशिष्टतया जीवस्य शाश्वति. कत्वमभिदधे । यदि पुनः प्रस्थकन्यायाद विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्तस्वग्रन्थगाथा व्याख्यायते परैः, तदा न किञ्चिदस्माकं दुष्यतीति किमल्पीयसि दृढतरक्षो देन?। सिद्धोऽप्येतन्नये सत्त्वयोगात् सत्त्वः, अतति सततमपरापरपर्यायान् गच्छतीत्यात्मा च स्यादेव। अस्याप्युपर्शिततत्त्वो भावनिक्षेप एवाभिमतः।७। तदेवं लक्षिताः सप्तापि नयाः । एतेषु च यद्यपि क्षणिकत्वादिसाधने म्भूताभिप्रायेणेति समाधत्ते-भावपश्चकेति-औदयिक क्षायिक क्षायोपशमिकौपशमिक-पारिणामिकभावपञ्चकेत्यर्थः । अत एव नैगमाद्यभिप्रायेण तथोक्तत्वादेव । एवम्भूतनयं परित्यज्य गमविशेषाश्रयणेन दिगम्बरैरेतदुच्यमान तु सङ्गतमेव, न तत्रास्माकं विद्वेष इत्याह-यदि पुनरिति । प्रागुक्तस्वग्रन्थगाथा "तिकाले च दुपाण०"इत्यादि गाथा। परैः दिगम्बरैः। अस्माकं श्वेताम्बराणाम् । एवम्भूतनये उक्तदिशा जीवपदवाच्यो न भवति सिद्धः, परं सत्त्वपदवाच्य आत्मपदवाच्यश्च भवत्येव, तदव्युत्पत्तिनिमित्तस्य तत्र सत्वादित्याह-सिद्धोऽपीति । एतन्नये एवम्भूतनये। एवम्भूतनयस्यापि भावनिक्षेपमात्राभ्युपगन्तुल्य मित्याह-अस्यापीति-धवम्भूतनयस्यापीत्यर्थः ॥७॥
Rom/nococcore:
॥ इत्येवम्भूतनयनिरूपणम् ॥ ॐ00/9/
0 000000003 ततश्च लक्षणतः सप्तनयनिरूपणमपि परिसमाप्तमित्युपसंहरतितदेवमिति । यदि नयैः स्वस्वविषयसाधनमेव क्रियते तर्हि तत्तन्नयेन क्षणिकत्वादिसाधनप्रवृत्तेन नित्यत्वादिपराकरणमेकान्तानुग्रवेशादप्रमाणमेव प्रसक्तमित्यत आह-एतेषु चेति-लक्षितसप्तनयेषु