Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 195
________________ प्रमोदाविवृतिसंवलितं जानातीति प्रयोगप्रसङ्गः, न चैवमारम्भसमये पचतीति प्रयोगो न स्यात् तदा पाकाभावादिति वाच्यम्, स्थूलकालमादाय तत्समाधानात् तस्मात् क्रियमाणं कृतमि-त्यन्वयानुपपत्तिरिति चेत्, न एवं सत्यारम्भकाल इव तत्पूर्वकालेऽप्येकस्थलकालसम्भवेन पचतीति प्रयोगप्रसङ्गाद् व्यवहारानुकूल प्रयोगादरस्य वस्त्वसाधकत्वात्, अन्यथा, 'पुरुषो व्याघ्रः' इति प्रयोगात् पुरुषस्यापि व्याघ्रत्वप्रसङ्गः । किञ्च, एवं 'नष्टो घटः', 'नश्यन् घटः' इत्यादिप्रयोगव्यवस्थायां तव का गतिः?, नाशस्योक्तातीतत्वायोगात्, नष्टेऽपि घटे प्रयोगप्रसङ्ग इत्यर्थः । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । एवं प्रत्ययार्थस्य वर्तमानत्वादेर्धात्वर्थ एवान्वयाभ्युपगमे। आरम्भसमये पाकारम्भकाले । तदा पाकारम्भकाले । पाकारम्भक्षणमारभ्य यावता कालेन पाको निष्पद्यते तावान् सर्वोऽपि कालः पाकाधिकरणतया विवक्ष्यते स च सूक्ष्मरूपेणानेकोऽपि, स्थूलरूपेणेक एव तादृशवर्तमानकालश्च पाकारम्भसमयादरभ्य पाकपरिसमाप्तिं यावदेक एवेति तद्वृत्तित्वात् पाकारम्भसमयेऽपि पचतीति प्रयोगः स्यादेवेति समाधत्ते - स्थूलकालनादायेति । तत्समाधानात् पाकारम्भसमये पचतीति प्रयोगसम्भवात् । शङ्किता स्वाभिप्रेतमुपसंहरति-तस्मादिति । समाधत्ते - नेति । एवं सति स्थूलकालमुपादाय पाकारम्भकाले पचतीति प्रयोगस्योपपादने । तत्पूर्वकालेsपि आरम्भकालात् पूर्वकालेऽपि । ननु पाकारम्भपूर्वकाले पचतीति न व्यवहियत इति न तत्कालव्यापिस्थूलकालमुपादीयते, पाकारम्भकाले तु भवति तथाव्यवहार इति तत्कालव्यापिस्थूल कालमुपादाय तथाव्यवहारसम्भव इत्यत आह-व्यवहारानुकूल प्रयोगादरस्येति । अन्यथा व्यवहारानुकूल प्रयोगतोऽपि वस्तुसिद्धयभ्युपगमे । उक्तातीतत्वायोगात् यद्यपि नाशस्य पूर्वमेव १४६

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242