Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 191
________________ प्रमोदाविवृतिसंवलितं घटोत्पत्स्यनन्तरमपि सत्त्वं भवेत्, तदा तदुत्पत्तिप्रसङ्ग इति वाच्यम्, स्थूलतत्सत्त्वेऽपि सूक्ष्मक्रियाविगमात् । न च तत्क्रियाया घटोत्पत्तेः प्राक् सत्त्वे तदापि तदुत्पत्तिप्रसङ्गः, असत्वे च कार्याव्यवहितपूर्ववृत्तित्वाभावेन कारणत्वानुपपत्तिरिति वाच्यम्, कार्यव्याप्यतावच्छेदकपरिणामविशेषरूपकारणतायाः कार्यसहवृत्तितानियमात् । अत एव कुर्वद्रूपत्वमप्रामाणिकम्, बीजत्वादिना साङ्कर्याज्जातिरूपतद सिद्धेरिति निरस्तम् । अथैवं चक्रभ्रमणाद्यनुकूलक्रियावताम् । पूर्वं घटोत्पत्त्यव्यवहितपूर्वम् । तादृशानामेव ताहशव्यापारवतामेव । तेषां दण्डादीनाम् । तदा घटोत्पत्त्यनन्तरकाले । तदुत्पत्तिप्रसङ्गः घटोत्पत्तिप्रसङ्गः । निषेधे हेतुमाह-स्थूलतत्सत्त्वेऽपीतिस्थूलतादृशव्यापारसत्त्वेऽपीत्यर्थः । सूक्ष्मक्रियाविगमात् कुर्वद्रूपात्मकक्रियाSभावात् । 'न च' इत्यस्य 'वाच्यम्' इत्यनेन योगः । तत्क्रियाया घटोत्पत्ति कुर्वे द्रूपदण्डादिक्रियायाः । तदापि घटोत्पत्तिप्राक्कालेऽपि । तदुत्तिप्रसङ्गः । घटोत्पत्तिप्रसङ्गः । असत्त्वे च घटोत्पत्तेः प्राक्काले घटोत्पत्तिकुर्वद्रूपदण्डादिक्रियाया अभावे च । यदा च कारणस्य परिणामविशेषवतः सत्वं तदा कार्यमित्येवं कार्य-कारणयोः समसमयत्वेन व्याप्तिरिति कार्योपत्तिकाल एवोक्तपरिणाम विशेषलक्षणकारणमिति हेतुमुपदर्शयति-कार्येति तादृशपरिणामविशेषश्च कुर्वद्रूपत्वमेवेति कुर्व द्रूपत्वमपि प्रामाणिक मेवेत्याशयः । अत एव उक्तव्याप्यतावच्छेदकतया कुर्वद्रूपत्वस्य सिद्धत्वादेव, अस्य 'निरस्तम्' इत्यमेनान्वयः । बीजत्वादिनेति - आदिपदाद् दण्डत्वादेरुपग्रहः, बीजत्वाभाववति घटकुर्वद्रूपात्मकदण्डादौ कुर्वद्रूपत्वस्य सत्त्वम् कुर्वद्रूपत्वाभाववति कुशलेस्थबीजे बीजत्वस्य सत्त्वम् उभयोश्व कुर्वद्रूपात्मकबीजे सत्त्वमिति साङ्कर्यम्, बीजत्वव्याप्यतया कुर्वद्रूपत्वाभ्युपगमोऽपि न सम्भवति तत्रापि शालित्वादिना साङ्कर्यसम्भवात् । जातिरूपतदसिद्धेः जातिरूपस्य १४२ 3 ,

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242