________________
प्रमोदाविवृतिसंवलितं
घटोत्पत्स्यनन्तरमपि सत्त्वं भवेत्, तदा तदुत्पत्तिप्रसङ्ग इति वाच्यम्, स्थूलतत्सत्त्वेऽपि सूक्ष्मक्रियाविगमात् । न च तत्क्रियाया घटोत्पत्तेः प्राक् सत्त्वे तदापि तदुत्पत्तिप्रसङ्गः, असत्वे च कार्याव्यवहितपूर्ववृत्तित्वाभावेन कारणत्वानुपपत्तिरिति वाच्यम्, कार्यव्याप्यतावच्छेदकपरिणामविशेषरूपकारणतायाः कार्यसहवृत्तितानियमात् । अत एव कुर्वद्रूपत्वमप्रामाणिकम्, बीजत्वादिना साङ्कर्याज्जातिरूपतद सिद्धेरिति निरस्तम् । अथैवं चक्रभ्रमणाद्यनुकूलक्रियावताम् । पूर्वं घटोत्पत्त्यव्यवहितपूर्वम् । तादृशानामेव ताहशव्यापारवतामेव । तेषां दण्डादीनाम् । तदा घटोत्पत्त्यनन्तरकाले । तदुत्पत्तिप्रसङ्गः घटोत्पत्तिप्रसङ्गः । निषेधे हेतुमाह-स्थूलतत्सत्त्वेऽपीतिस्थूलतादृशव्यापारसत्त्वेऽपीत्यर्थः । सूक्ष्मक्रियाविगमात् कुर्वद्रूपात्मकक्रियाSभावात् । 'न च' इत्यस्य 'वाच्यम्' इत्यनेन योगः । तत्क्रियाया घटोत्पत्ति कुर्वे द्रूपदण्डादिक्रियायाः । तदापि घटोत्पत्तिप्राक्कालेऽपि । तदुत्तिप्रसङ्गः । घटोत्पत्तिप्रसङ्गः । असत्त्वे च घटोत्पत्तेः प्राक्काले घटोत्पत्तिकुर्वद्रूपदण्डादिक्रियाया अभावे च । यदा च कारणस्य परिणामविशेषवतः सत्वं तदा कार्यमित्येवं कार्य-कारणयोः समसमयत्वेन व्याप्तिरिति कार्योपत्तिकाल एवोक्तपरिणाम विशेषलक्षणकारणमिति हेतुमुपदर्शयति-कार्येति तादृशपरिणामविशेषश्च कुर्वद्रूपत्वमेवेति कुर्व द्रूपत्वमपि प्रामाणिक मेवेत्याशयः । अत एव उक्तव्याप्यतावच्छेदकतया कुर्वद्रूपत्वस्य सिद्धत्वादेव, अस्य 'निरस्तम्' इत्यमेनान्वयः । बीजत्वादिनेति - आदिपदाद् दण्डत्वादेरुपग्रहः, बीजत्वाभाववति घटकुर्वद्रूपात्मकदण्डादौ कुर्वद्रूपत्वस्य सत्त्वम् कुर्वद्रूपत्वाभाववति कुशलेस्थबीजे बीजत्वस्य सत्त्वम् उभयोश्व कुर्वद्रूपात्मकबीजे सत्त्वमिति साङ्कर्यम्, बीजत्वव्याप्यतया कुर्वद्रूपत्वाभ्युपगमोऽपि न सम्भवति तत्रापि शालित्वादिना साङ्कर्यसम्भवात् । जातिरूपतदसिद्धेः जातिरूपस्य
१४२
3
,