________________
नयरहस्यप्रकरणम्।
धुपलक्षितदीर्घक्रियाकाले कुतो न दृश्यते घटः ? यदि क्रियमाणः कृत एवेति चेत् , न-क्रियाया दीर्घकालत्वासिद्धेश्वरमसमये तदभ्युपगमात् , घटगताभिलाषोत्कर्ष
शादेव मृन्मदनाद्यान्तरालिककार्यकरणवेलायां घट करोनीति व्यवहारात् ; तदुक्तम्-[वि० भाष्ये]"पइसमयकजकोडी जिरवेक्ग्यो घडगयाहिलासोसि। पइसमयकजकालं थूलमई? घडंमि लाएसि"॥२३१८॥इति। कुर्वद्रूपत्वस्यासिद्धेः, जातिरूपस्य तस्याभावेऽपि परिणामविशेषरूपस्य तस्य सम्भव पवेति निरासहेनुः। ननु मृदानयन तन्मदनतच्चक्रोपरिस्थापन-चक्रनमणादिक्रियाकलापः सर्वोऽपि घटोत्पादनानुकूलत्वाद घटस्य क्रियमाणकालस्थ पवेति चरमक्रियासमय इव, तत्तत्पूर्वक्रियाकालऽपि घटस्य क्रियमाणत्वे कृतत्वभावान्निष्पन्नस्य सतस्तस्य प्रत्यक्षं स्यादित्याशङ्कते-अथेति । एवम् एतन्मते क्रियमाणस्य कृतत्वाभ्युपगमे । घटकुर्वद्रूपात्मिका किया यदनन्तरं घटो भवत्येव तदानीमेव, न तु दीर्घकालिकी सेति चरमसमय एव क्रियमाणत्वं तदानीमेव च कृतत्वमिति न पूर्वसमये घटोपलब्धिरिति समाधत्ते-नेति । तदभ्युपगमात् घटकुर्वद्रूपात्मकक्रियाऽभ्युपगमात् । ननु यदि चरमसमय एव घटस्य क्रियमाणत्वं तदा मृन्मदनादिबेलायां घट कोमीति व्यवहारानुपपत्तिरित्यत आह-घटगतेतिघटस्य निष्पत्तिर्यद्यपि चरमसमय एव, तथा घटभवनगोचरोत्कटेछावशादेव मृन्मर्दनादिवेलायामपि घटं करोमीति व्यवहार इत्यर्थः। उक्तार्थ भाप्यसम्मतिमुपदर्शयति-तदुक्तमिति। पइसमय• इति-"प्रतिसमयकार्यकोटीनिरपेक्षो घटगताभिलापोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे लगयसि" इति संस्कृतम्। क्रियमाणस्य कृतत्वमेव यदि तर्हि कृतं निष्पन्नमेवेति तत्र क्रियावैफल्यमिति न शङ्कनीयम् , क्रियात एव तन्निष्पत्तिर्भवति, क्रियामन्तरेण कृतत्वस्यैवाघटमानत्वेन निष्टार्थ क्रियायाः साफल्यादित्याह-कृतस्यैवेति ।