________________
१४४
प्रमोदाविवृतिसंवलितं
कृतस्यैव करणे क्रियावैफल्यमित्यपि न रमणीयम् , क्रिययैव निष्ठां जनयित्वा कार्यस्य कृतत्वोपादनात् । कृतमेव क्रिया जनयति, नाकृतम् , असत्त्वात् , क्रियाजनित. त्वाच कृतमित्यन्योऽन्याश्रय इति चेत्, न- घटत्वादिनैव घटादिक्रियाजन्यत्वात् , तत्र कृतत्वाप्रवेशादार्थादेव समा. जात् कृतत्वोपपत्तेः । यदि च क्रियमाणं न कृतम् , तदा क्रियासमये कार्याभावात् तत्पूर्वं तत्पश्चाच कारणाभावात् तत्कार्यं न भवेदेव । सामग्र्यास्तदुत्तरसमय एव कार्यव्याप्यत्वोपगमान्नैष दोष इति चेत्, न- सामग्रीसमयस्यैव कार्यव्याप्यत्वोपगमौचित्यात् , व्याप्तावुत्तरत्वाप्रवेशेन कृतस्य क्रियातो भावेऽन्योऽन्याश्रयमाशङ्कते-कृतमेवेति । असत्त्वात् अकृतस्यासत्त्वादभावात् , तथा च कृतत्वे सति क्रियाजन्यत्वम् , क्रियाजन्यत्वाच्च कृतत्वमित्यन्योऽन्याश्रय इत्यर्थः। कृतत्वावच्छिन्नं प्रति क्रियात्वेन कारणत्वमित्येव नेष्यते, येनाऽन्योऽन्याश्रयः स्यात् किन्तु घटत्वावच्छिन्नं प्रति क्रियात्वेन कारणत्वम् , क्रियात उत्पन्न त्वादेव कृतत्वमर्थात् सिद्धमिति समाधत्ते-नेति । तत्र क्रियाजन्यतायाम्। क्रियमाणस्य कृतत्वानभ्युपगमे दण्डमाह-यदि चेति । तत्पूर्व क्रियासमयात् पूर्वम् । तत्पश्चाच क्रियासमयात् पश्चाच। यदा सामग्री तदनन्तरं कार्य भवत्येवं व्याप्तिरिति क्रियासमयात् पश्चात् कारणाभावेऽषि क्रियासमये कारणसत्त्वात् कार्य स्यादेवेति शङ्कते-सामग्र्या इति। तदुत्तरसमय एव सामयुत्तरसमय एव । नैष दोषः न कार्याभवनलक्षणो दोषः। यदा सामग्री तदा कार्यमिति समसमयत्वेनैव तयोाशिर्लाघवात् , न तु यदा सामयुत्तरत्वं तदा कार्यमिति व्यातिौरवादिति समाधत्ते-नेति । यदा कारणामावस्तदा कार्याभाव इत्येव व्याप्तिन तु यदा कारणोत्तरत्वाभावस्तदा कार्याभावो गौरवादिति कारणोत्तरकाले कारणाभावात् कार्याभावस्यैव प्राप्तेरि