Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 187
________________ १३८ प्रमोदाविवृतिसंवलितं गृह्यत एवम्भूतेन, कथं तर्हि भावप्राणयोगाद् भवतामपि सिद्धस्य जीवत्वं मलयगिरिप्रभृतिभिरुक्तमिति चेत् ?, भावपञ्चकग्राहिनेगमाद्यभिप्रायेणेति गृहाण, अत एव प्रज्ञापनादौ जीवनपर्यायविशिष्टतया जीवस्य शाश्वति. कत्वमभिदधे । यदि पुनः प्रस्थकन्यायाद विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्तस्वग्रन्थगाथा व्याख्यायते परैः, तदा न किञ्चिदस्माकं दुष्यतीति किमल्पीयसि दृढतरक्षो देन?। सिद्धोऽप्येतन्नये सत्त्वयोगात् सत्त्वः, अतति सततमपरापरपर्यायान् गच्छतीत्यात्मा च स्यादेव। अस्याप्युपर्शिततत्त्वो भावनिक्षेप एवाभिमतः।७। तदेवं लक्षिताः सप्तापि नयाः । एतेषु च यद्यपि क्षणिकत्वादिसाधने म्भूताभिप्रायेणेति समाधत्ते-भावपश्चकेति-औदयिक क्षायिक क्षायोपशमिकौपशमिक-पारिणामिकभावपञ्चकेत्यर्थः । अत एव नैगमाद्यभिप्रायेण तथोक्तत्वादेव । एवम्भूतनयं परित्यज्य गमविशेषाश्रयणेन दिगम्बरैरेतदुच्यमान तु सङ्गतमेव, न तत्रास्माकं विद्वेष इत्याह-यदि पुनरिति । प्रागुक्तस्वग्रन्थगाथा "तिकाले च दुपाण०"इत्यादि गाथा। परैः दिगम्बरैः। अस्माकं श्वेताम्बराणाम् । एवम्भूतनये उक्तदिशा जीवपदवाच्यो न भवति सिद्धः, परं सत्त्वपदवाच्य आत्मपदवाच्यश्च भवत्येव, तदव्युत्पत्तिनिमित्तस्य तत्र सत्वादित्याह-सिद्धोऽपीति । एतन्नये एवम्भूतनये। एवम्भूतनयस्यापि भावनिक्षेपमात्राभ्युपगन्तुल्य मित्याह-अस्यापीति-धवम्भूतनयस्यापीत्यर्थः ॥७॥ Rom/nococcore: ॥ इत्येवम्भूतनयनिरूपणम् ॥ ॐ00/9/ 0 000000003 ततश्च लक्षणतः सप्तनयनिरूपणमपि परिसमाप्तमित्युपसंहरतितदेवमिति । यदि नयैः स्वस्वविषयसाधनमेव क्रियते तर्हि तत्तन्नयेन क्षणिकत्वादिसाधनप्रवृत्तेन नित्यत्वादिपराकरणमेकान्तानुग्रवेशादप्रमाणमेव प्रसक्तमित्यत आह-एतेषु चेति-लक्षितसप्तनयेषु

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242