Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 179
________________ प्रमोदाविवृतिसंवलितं नात् पर्यायपदाप्रसिद्धेः। व्युत्पत्त्यर्थबोधं विनाऽपि दृश्यते पदार्थबोध इति चेत्, न - अन्यत्र विपरीतव्युत्पन्नात् तदसिद्धेः । हन्त ! एवं पारिभाषिकशब्दस्यानर्थकत्वमापन्नमिति चेत्, आपन्नमेव, किं हन्तेति पूत्कारेण:, तदुक्तम्" तत्र परिभाषिकी नार्थतत्त्वं ब्रवीति" इति । अथार्थबोधकत्वमात्रे यदि पदत्वभावस्तदा यहच्छाशब्दसङ्केतादपि १३० स्कृत्याऽपि घटपदाद् घटत्वेन वोधः कुटपदादपि तथा बोध इत्याशङ्कते - व्युत्पत्त्यर्थबोधं विनाऽपीति । सम्यग्व्युत्पन्नानां घटपदस्य घटनक्रियापुरस्कारेण कुटपदस्य कुटनक्रियापुरस्कारेण सङ्केतग्रहतस्तथैव शाब्दबोधः, घटत्वेन घटे सङ्केतं गृह्णतस्तु विपरीतव्युत्पन्नस्य घटत्वेन घटशाब्दबोधो भवतु नाम, न ततोऽर्थव्यवस्थितिः, अन्यथा विपरीतव्युत्पन्नस्य कस्यचित् पटपदादपि घटशाब्दबोध भावेन पटपदार्थत्वमपि घटस्य स्यादिति समाधत्ते नेति । विपरीतेति- विपरीतव्युत्पन्नादन्यत्र तदसिद्धेरित्यन्वयः, विपरीतव्युत्पन्नभिन्नपुरुषे व्युत्पत्त्यर्थबोधं विना पदार्थबोधस्यासिद्धेरित्यर्थः । परः शङ्कते - एवमितिव्युत्पत्तिनिमित्तक्रियापुरस्कारेणैव पदार्थबोधस्याभ्युपगमे । पारिभाषिकशब्दस्यानर्थकत्वापत्तिरिऐवेति समाधत्ते - आपनमेवेति पारिभाषिकशब्दस्यानर्थकत्वमस्माभिरभ्युपेयत एवेति तदापादनं नानिष्टमित्यर्थः । साम्प्रतनये पारिभाषिकशब्दस्यानर्थकत्वे वृद्धसम्मतिमुपदर्शयतितदुक्तमिति । पारिभाषिकी आधुनिकसङ्केतिता व्युत्पत्तिनिमित्तक्रियामपुरस्कृत्यैव काष्ठमयहस्त्यादौ डित्यादिसंज्ञा । पारिभाषिक संज्ञातोऽप्यर्थबोधो भवत्येवेत्यर्थबोधकत्वेन नैमित्तिक-पारिभाषिक संज्ञयोरविशेष एवेति शङ्कते - अथेति । 'अर्थबोधकत्वमात्रे यदि पदत्वभावः' इति स्थाने 'अर्थबोधकत्वमात्रं यदि पदस्वभावः' इति पाठः समुचितः, उक्तपाठप्रामाण्ये सति सप्तमी ज्ञेया । तदभिव्यक्तेः-अर्थाभिव्यक्तेः।

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242