________________
प्रमोदाविवृतिसंवलितं
नात् पर्यायपदाप्रसिद्धेः। व्युत्पत्त्यर्थबोधं विनाऽपि दृश्यते पदार्थबोध इति चेत्, न - अन्यत्र विपरीतव्युत्पन्नात् तदसिद्धेः । हन्त ! एवं पारिभाषिकशब्दस्यानर्थकत्वमापन्नमिति चेत्, आपन्नमेव, किं हन्तेति पूत्कारेण:, तदुक्तम्" तत्र परिभाषिकी नार्थतत्त्वं ब्रवीति" इति । अथार्थबोधकत्वमात्रे यदि पदत्वभावस्तदा यहच्छाशब्दसङ्केतादपि
१३०
स्कृत्याऽपि घटपदाद् घटत्वेन वोधः कुटपदादपि तथा बोध इत्याशङ्कते - व्युत्पत्त्यर्थबोधं विनाऽपीति । सम्यग्व्युत्पन्नानां घटपदस्य घटनक्रियापुरस्कारेण कुटपदस्य कुटनक्रियापुरस्कारेण सङ्केतग्रहतस्तथैव शाब्दबोधः, घटत्वेन घटे सङ्केतं गृह्णतस्तु विपरीतव्युत्पन्नस्य घटत्वेन घटशाब्दबोधो भवतु नाम, न ततोऽर्थव्यवस्थितिः, अन्यथा विपरीतव्युत्पन्नस्य कस्यचित् पटपदादपि घटशाब्दबोध भावेन पटपदार्थत्वमपि घटस्य स्यादिति समाधत्ते नेति । विपरीतेति- विपरीतव्युत्पन्नादन्यत्र तदसिद्धेरित्यन्वयः, विपरीतव्युत्पन्नभिन्नपुरुषे व्युत्पत्त्यर्थबोधं विना पदार्थबोधस्यासिद्धेरित्यर्थः । परः शङ्कते - एवमितिव्युत्पत्तिनिमित्तक्रियापुरस्कारेणैव पदार्थबोधस्याभ्युपगमे । पारिभाषिकशब्दस्यानर्थकत्वापत्तिरिऐवेति समाधत्ते - आपनमेवेति पारिभाषिकशब्दस्यानर्थकत्वमस्माभिरभ्युपेयत एवेति तदापादनं नानिष्टमित्यर्थः । साम्प्रतनये पारिभाषिकशब्दस्यानर्थकत्वे वृद्धसम्मतिमुपदर्शयतितदुक्तमिति । पारिभाषिकी आधुनिकसङ्केतिता व्युत्पत्तिनिमित्तक्रियामपुरस्कृत्यैव काष्ठमयहस्त्यादौ डित्यादिसंज्ञा । पारिभाषिक संज्ञातोऽप्यर्थबोधो भवत्येवेत्यर्थबोधकत्वेन नैमित्तिक-पारिभाषिक संज्ञयोरविशेष एवेति शङ्कते - अथेति । 'अर्थबोधकत्वमात्रे यदि पदत्वभावः' इति स्थाने 'अर्थबोधकत्वमात्रं यदि पदस्वभावः' इति पाठः समुचितः, उक्तपाठप्रामाण्ये सति सप्तमी ज्ञेया । तदभिव्यक्तेः-अर्थाभिव्यक्तेः।