________________
नयरहस्यप्रकरणम्।
१३१
तदभिव्यक्तः किं वैषम्यमिति चेत्, न-पदानां व्युत्पत्तिनिमित्तोपकारेणैवार्थबोधकत्वस्वाभाव्यात् , यदृच्छासंकेतोपप्लवादस्वभावभूतस्यैव धर्मस्य ग्रहेण वैषम्यात् । अथ नानार्थकपदेऽर्थसंक्रमवदर्थेऽपि पदसंक्रमः किं न स्यादिति चेत् , न- अर्थस्येव पदस्थापि क्रियोपरागेण भेदादर्थासंक्रमस्वीकारात् , 'हरी'इत्यादौ च पदसारूप्येणेवैकशेषः, न त्वर्थसारूप्येणेति दिक् । अस्याप्युपदर्शितनत्त्वो भावनिक्षेप एवाभिमतः ॥६॥ के वैषम्यम् नैमित्तिकसंज्ञातः पारिभाषिकसंज्ञायाः किं वैलक्षण्यम् ?, अर्थवोधकत्वस्योभयत्र समानत्वात् । व्युत्पत्तिनिमित्तपुरस्कारेणाऽर्थबोधकत्वमेव पदानां स्वभावः, नार्थबोधकत्वमात्रम् , पारिभाषिकशब्दस्तु यादृच्छिकलङ्केतबलादस्वभावभूतमेव धर्ममात्मसात् करोनीति वैषम्यमस्त्येवेति समाधत्ते-पदानामिति । ग्रहेण परिग्रहेण । ननु यथा हर्यादिशब्दस्यैकस्यापि विष्णु-सिंहेन्द्रादिनानार्थत्वमिति पदे नानार्थसङ्क्रमः, तथैकस्यापि घटस्य घट-कुटादिनानाशब्दवाच्यत्वमित्यर्थऽपि पदसङ्क्रमोऽस्त्विति शङ्कते-अथेति । अर्थस्य क्रियावत्त्वात् क्रियोपरागः, पदस्य क्रियानिमित्तकत्वात् क्रियोपराग इति नकस्य पदस्य नानार्थत्वम् , विष्णावन्यक्रियानिमित्तेन प्रवर्तमानो यो हरिशब्दः, तस्मात् तदन्यक्रियानिमित्तेन प्रवर्तमानो हरिशब्दोऽन्य एवेति पदेऽपि नार्थसङ्क्रमः, हरिश्च हरिश्च हरी इत्यादी "स्यादाघसंख्येयः” [सि०३-१-१११] इत्यनेनैकशेषो विहितः, तत्रापि पदसारूप्यादेवैकशेषः, न तु विभिन्नार्थयोस्तयोरर्थसारूप्यमिति न तन्निवन्धनकशेष इति समाधत्ते-नेति। समभिरूढस्यापि भावनिक्षेपमात्राभ्युपगन्तृत्वमित्याह-अस्यापीति-समभिरुढस्यापीत्यर्थः॥६॥
॥ ॥ इति समभिरूढनयनिरूपणम् ॥