________________
प्रमोदाविवृतिसंवलितं
एव
"व्यञ्जना-ऽर्थविशेषान्वेषणपरोऽध्यवसायविशेष म्भूतः " | "वंजण अत्थ- तदुभए, एवम्भूओ विसेसे” | [वि० आ० २१८५ ] इति सूत्रम् ॥
१३२
"व्यञ्जनार्थयोरेवम्भूतः" इति तत्त्वार्थ भाष्यम् ॥[१.३५ तत्त्वं च पदानां व्युत्पत्त्यर्थान्वय नियतार्थबोधकत्वाभ्युपगन्तृत्वम्, नियमश्च कालतो देशतश्चेति न समभिरूढातिव्याप्तिरपि । अयं खल्वस्य सिद्धान्तः- यदि घट-पदव्युत्पत्त्यर्थाभावात् कुटपदार्थोऽपि न घटपदार्थस्तदा जलाहरणादिक्रियाविरहकाले घटोsपि न घटपदार्थोऽविशेषादिति ।
अथ एवम्भूतनयं निरूपयति
व्यजनेति - 'व्यञ्जना ऽर्थविशेषान्वेषणपरोऽध्यवसायविशेषः' इति । लक्षणम्, 'एवम्भूतः' इति लक्ष्यम् । व्यञ्जनस्य - शब्दस्य अर्थस्य चवाच्यस्य यो विशेषः - व्युत्पत्तिनिमित्तक्रिया देश-कालनियमलक्षणः, तदवगाहनपरः । उक्तार्थे सूत्रं प्रमाणयति - वंजण० इति - "व्यञ्जनाऽर्थ - तदुभयानेवम्भूतो विशेषयति" इति संस्कृतम् । तत्त्वार्थभाष्यसम्म तिमाह - व्यञ्जनेति । तत्त्वं च एवम्भूतत्वं च । समभिरूढातिव्याप्तिवारणायाह-नियमश्चेति- समभिरूढे यदा कदाचिद् यत्र कुत्रापि गोर्गमनक्रियाभावे गवि गौरिति व्यपदेशो भवतीति गोपदस्य गोरूपार्थो व्युत्पत्यर्थक्रियया कालतो देशतश्च न नियत इति नोक्तलक्षणस्य तत्रातिव्याप्तिरित्यर्थः। एवम्भूताभिमन्तव्यमुपदर्शयति-अयमिति- 'यदि' इत्यादिनानन्तरमेवाभिधीयमान इत्यर्थः । अस्य एवम्भूतनयस्य । ननु जलाहरणादिक्रियाविरहकाले घटपदव्युत्पत्तिनिमित्तार्थाभावाद यदि घटस्य न घटपदार्थत्वं तदा प्राणधारणलक्षणजीवन क्रियारूपजीवपदव्युत्पत्तिनिमित्ताभावात् सिद्धस्यापि जीवत्वं न स्यादित्याशङ्कते -