________________
नयरहस्यप्रकरणम्।
१३३
नन्वेवं प्राणधारणाभावात् सिद्धोऽपि न जीवः स्यादिति चेत् , एतन्नये न स्यादेव , तदाह भाष्यकार:
"एवं जीवं जीवो संसारी पाणधारणाणुभयो । सिद्धो पुणरजीवो जीवणपरिणामरहिओत्ति"॥२२५६॥
अत एव जीवो नोजीवोऽजीवो नोऽजीव इत्याकारिते० नैगमदेश-संग्रह-व्यवहार सूत्र-साम्प्रत समभिरूढा जीवं प्रत्यौपशमिकादिभावपञ्चकग्राहिणः, तन्मते व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितात्मत्वरूपपरिणामभावविशिष्टस्य जीवस्य भावपञ्चकात्मनः पदार्थत्वादित्यमी पञ्चस्वपि गतिषु जीव इति जीवद्रव्यं प्रतियन्ति, नोजीव इति च नोशब्दस्य सर्बनिषेधार्थपक्षेजीवद्रव्यमेव, देशनिषेधार्थपक्षे च देशस्याप्रतिषेधाजीवस्यैव नन्वेवमिति । अत्रेष्टापत्तिरेव समाधानमित्याह-एतन्नय इति-एवम्भूतनय इत्यर्थः । न स्यादेव मिद्धो न भवेदेव जीवपदार्थः। उक्तार्थ भाष्यकारवचनं संवादकतयोपदर्शयति-तदाह भाष्यकार इति। एवमिति"एवं जीवन जीवः संसारी प्राणधारणानुभवः। सिद्धः पुनरजीवो जीवनपरिणामरहितः" ॥१॥ इति संस्कृतम् । अत एव प्राणधारणलक्षणजीवनक्रियाकाल पवैयम्भूतलये जीवत्वाभ्युपगमादेव। 'औपशमिकादि इत्यादिपदादोदयिक क्षायौपशमिक-सायिक पारिणाभिकभावानां ब्रहणम्। तन्मते नैगमादिषड्नयसते । अमी नैगमादयः पड् नयाः । पञ्चस्वपि गतिषु-नराऽमर-तिर्यग्-नारक-सिद्धगतिपु। जीव इति जीव इत्येवं स्वरूपशब्देन । नोजीव इति च नोजीव इत्येवंस्वरूपशब्देन । 'अजीवद्रव्यमेव' इत्यनन्तरं 'प्रतियन्ति' इत्यनुवर्तते, एवमग्रेऽपि । देशनिषेधार्थपक्षे 'नोजीवः' इत्यत्र 'नोशब्दस्य' जीवस्य देशनिषेधार्थत्वपक्षे । देशस्याप्रतिषेधात् यत्किञ्चिजीवदेशस्य प्रतिषेधेऽपि