________________
१३४
प्रमोदाविवृतिसंवलितं
देश-प्रदेशौ; अजीव इति नकारस्य सर्वप्रतिषेधार्थत्वात् पर्युदासाश्रयणाच जीवादन्यत् पुद्गलद्रव्यादिकमेव; नोऽजीव इति सर्वप्रतिषेधाश्रयणे जीवद्रव्यमेव, देशप्रति षेधाश्रयणे चाजीवस्यैव देशप्रदेशौ। एवम्भूतस्तु जीवं प्रत्यौदयिकभावग्राहकः, तन्मते क्रियाविशिष्टस्यैव पदार्थत्वादित्ययं जीव इत्याकारिते भवस्थमेव जीवं गृह्णाति, न तु सिद्धम् , तत्र जीवनानुपपत्तेः; नोजीव इति चाजीवद्रव्यं सिद्धं वा; अजीव इति चाजीवद्रव्यमेव; नोऽजीव इति च भवस्थमेव । जीवदेश प्रदेशोतु सम्पूर्णग्राहिणाऽनेन न स्वीक्रियेते, इत्यस्माकं प्रक्रिया। केचित् तु-"एवम्भूतातदीयान्यदेशस्याप्रतिषेधात् । अजीव इति अजीव इत्येवंस्वरूपशब्देन । नकारस्य न जीवोऽजीव इति समस्यमानस्य नमः। सर्वप्रतिषेधार्थत्वात् सम्पूर्णजीवस्वरूपप्रतिषेधार्थत्वात् , तथा चैवम्भूतजीवनिषेधे तद्देशप्रदेशावपि निषिद्धावेव। एवं सति जीवात्यन्ताभाव एव प्रतिपादितः स्यादत आह-पयुदासाश्रयणाचेति-प्रसज्यनिषेधाश्रयणे हि स्याद् अत्यन्ताभावप्रतीतिः, पर्युदासस्तु तद्भिन्नतत्सदृग्ग्राही, तस्याश्रयणाच्चे. त्यर्थः। नोऽजीव इति नोऽजीव इत्येवंस्वरूपशब्देन । सर्वप्रतिषेधाश्रयणे नकारद्वयस्यापि प्रत्येकं सर्वप्रतिषेधार्थत्वाश्रयणे। द्वौ नौ प्रकृतमथं गमयत इति न्यायात् जीवद्रव्यमेव प्रतियन्ति। देशप्रतिषेधाश्रयणे नोशब्दस्य देशप्रतिषेधार्थत्वाश्रयणे। नैगमादीनां पण्णां जीव इत्यादावभिप्रायसाम्यमुपदयं तेभ्य एवम्भूतस्य तत्राभिप्रायवैलक्षण्यमु. पदर्शयति-एवम्भूतस्त्विति । तन्मते एवम्भूतनयमते। 'अयम्' इत्यस्य 'गृह्णाति' इत्यनेन सम्बन्धः । अयम् एवम्भूतनयः। तत्र सिद्धे । जीवनार्थानुपपत्तेः जीवनार्थस्य प्राणधारणस्यानुपपत्तेः। नोजीव इति चेत्यादि स्पष्टम् । सम्पूर्णग्राहिणाऽनेन सम्पूर्णवस्तुस्वरूपग्राहिणा एवम्भूतनयेन। अस्माकं श्वेताम्बरणाम् । एवम्भूतमन्तव्यं दिगम्बरमतेनोपदर्शयति