________________
नयरहस्यप्रकरणम् ।
१३५
भिप्रायेण सिद्ध एव जीवो भावप्राणधारणात् , न तु संसारी"इति परिभाषन्ते, तदाहुः-[द्रव्यसङ्ग्रहे] “तिकाले च दु पाणा इंदियबलमाउ आणपाणा अ। ववहारा सो जीवो णिच्छयदो दुचेदणा जस्स" ॥३॥इति। ___ न च द्विचेतनाशाली संसार्यपि जीव एवेति वाच्यम् , शुद्धचैतन्यरूपनिश्चयप्राणस्य सिद्धेनैव धरणात् । न च. संसारिचैतन्यमपि निश्चयतः शुद्धमेवोपरागस्य तेन प्रतिक्षेपात्, तदुक्तम् [द्रव्यसंग्रहे]"मग्गण-गुणठाणेहि अचउदस य हवंति तह असुद्धणया। विण्णेया संसारी सव्वे सुद्धा उहु) सुद्धणया" ॥१३॥
इतीति वाच्यम् ; एकीकृतनिश्चयेन तथाग्रहणेऽपि पृथक्कृतनिश्चयभेदेन -केवित्त्विति-परिभाषन्ते इत्यनेनान्वयः। पूर्व सिद्ध श्वास-प्रश्वासादि. लक्षणप्राणधारणनिषेधाजीवत्वमावेदितम् , एतन्मते च भावप्राणधारणलक्षणजीवपदार्थाश्रयणेन सिद्धमात्रस्य जीवत्वमुपदर्शितम् । उक्तार्थ संवादमाह-तदाहुरिति । तिकाले० इति-"त्रिकाले च द्वौ प्राणा इन्द्रियबलमायुरान-प्राणौ च । व्यवहारात् स जीवो निश्चयतोद्वेचेतने यस्य” ॥ इति संस्कृतम् । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । शुद्धचैतन्यं जीवे नास्तीत्यभिप्रायेण निषेधहेतुमाह-शुद्धचैतन्यरूपेति । 'न च' इति वाच्यम्' इत्युत्तरेण योगः। उपरागस्यआवरणीयकर्मसम्बन्धस्य। तेन निश्चयेन। मग्गण० इति-"मार्गणगुणस्थानैश्च चतुर्दश च भवन्ति तथा अशुद्धनयाः। विज्ञेयाः संसारिणः सर्वे शुद्धास्तु शुद्धनयाः" ॥ इति संस्कृतम् । निषेधे हेतुमाह--एकीकृतनिश्चयेनेति-चैतन्यत्वेन सर्वचैतन्यानामैक्यमेवेत्येवम्भूतसंग्रहनिश्चयनयेनेत्यर्थः। तथाग्रहणेऽपि संसारिचैतन्यस्य शुद्धत्वेन ग्रहणेऽपि। पृथक्कृतनिश्चयभेदेन तत्तदात्मस्वरूपचैतन्यं तत्तदात्मभेदेन विभिन्नमेवे