________________
प्रमोदाविवृतिसंवलितं
तदग्रहणादिति; तचिन्त्यम्-एवम्भूतस्य जीवं प्रत्यौदयिकभावग्राहकत्वात् । न चास्य क्रियाया एव प्रवृत्तिनिमित्तत्वाद् धात्वर्थ एव भावनिक्षेपाश्रयणे शुद्धधर्मग्राहकत्वमप्यनाबाधमिति वाच्यम् , यादृशधात्वर्थमुपलक्षणीकृत्येतरनयार्थप्रतिसंधानं तादृशधात्वर्थप्रकारकजिज्ञासयैव प्रसङ्गसङ्गत्यैवरभूताभिधानस्य साम्प्रदायिकत्वात् , अन्यथा
त्येवं तत्तचैतन्यविशेषनाहिनिश्चयनिशेषेण । तदग्रहणात् संसारिचैतन्यस्य शुद्धत्वाग्रहणात् । तच्चिन्त्यमिति-एवम्भूतनये सिद्धस्यैव भावप्राणधारणाजीवत्वमिति दिगम्बरमतं चिन्त्यमित्यर्थः। चिन्तावीजं प्रकटयति-एवम्भूतस्येति-शुद्धचैतन्यं च पारिणामिकमिति तद्ग्राहकत्वाभावान्न तदाश्रयणेन सिद्धस्य जीवत्वं तन्मते इति भावः । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः। अस्य एवम्भूतस्य, मते इति शेषः। क्रियाया एव प्राणधारणक्रियाया एव । प्रवृत्तिनिमित्तत्वात् जीवपदप्रवृत्तिनिमित्तत्वात् । एतावताऽपि भावप्राणधारणं न लब्धमित्यत आह-धात्वर्थ एवेति-प्राणधारणलक्षणधात्वर्थ एवेत्यर्थः । भावनिक्षेपाश्रयणे-भावनिक्षेपश्च भावमेवाभ्युपैति, भावप्राणता च शुद्धचैतन्यस्यैवेति तदाश्रयणे। शुद्धधर्मग्राहकत्वमपि चैतन्यलक्षणशुद्धधर्मग्राहकत्वमप्येवम्भूतनयस्य । नैगमादिनयेषु व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावरूपधात्वर्थमुपलक्षणीकृत्य तदुपलक्षितात्मत्वविशिष्ट एव जीवपदार्थः प्रतिसन्धीयते, तथा च व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावरूपधात्वर्थप्रकारकज्ञानं मे जायतामितीच्छयैव ताहशज्ञानसाधनैवम्भूतनयाभिधानं सम्प्रदायसिद्धम् , अत एवम्भूतनयतस्तादृशज्ञानमेव जीव इत्याकारिते युक्तमित्याशयेन निषेधहेतुमुपदर्शयति-यादृशधात्वर्थमिति-शुद्धचैतन्यरूपप्राणधारणमुपलक्षणीकृत्य तु नेतरनयार्थप्रतिसन्धानम् , अतो न सिद्धो जीव इत्यभिमत एवम्भूतस्येति । अन्यथा उक्तरीत्यनभ्युपगमे । तत्राऽपि भावनिक्षेपाश्रयण