Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 181
________________ प्रमोदाविवृतिसंवलितं एव "व्यञ्जना-ऽर्थविशेषान्वेषणपरोऽध्यवसायविशेष म्भूतः " | "वंजण अत्थ- तदुभए, एवम्भूओ विसेसे” | [वि० आ० २१८५ ] इति सूत्रम् ॥ १३२ "व्यञ्जनार्थयोरेवम्भूतः" इति तत्त्वार्थ भाष्यम् ॥[१.३५ तत्त्वं च पदानां व्युत्पत्त्यर्थान्वय नियतार्थबोधकत्वाभ्युपगन्तृत्वम्, नियमश्च कालतो देशतश्चेति न समभिरूढातिव्याप्तिरपि । अयं खल्वस्य सिद्धान्तः- यदि घट-पदव्युत्पत्त्यर्थाभावात् कुटपदार्थोऽपि न घटपदार्थस्तदा जलाहरणादिक्रियाविरहकाले घटोsपि न घटपदार्थोऽविशेषादिति । अथ एवम्भूतनयं निरूपयति व्यजनेति - 'व्यञ्जना ऽर्थविशेषान्वेषणपरोऽध्यवसायविशेषः' इति । लक्षणम्, 'एवम्भूतः' इति लक्ष्यम् । व्यञ्जनस्य - शब्दस्य अर्थस्य चवाच्यस्य यो विशेषः - व्युत्पत्तिनिमित्तक्रिया देश-कालनियमलक्षणः, तदवगाहनपरः । उक्तार्थे सूत्रं प्रमाणयति - वंजण० इति - "व्यञ्जनाऽर्थ - तदुभयानेवम्भूतो विशेषयति" इति संस्कृतम् । तत्त्वार्थभाष्यसम्म तिमाह - व्यञ्जनेति । तत्त्वं च एवम्भूतत्वं च । समभिरूढातिव्याप्तिवारणायाह-नियमश्चेति- समभिरूढे यदा कदाचिद् यत्र कुत्रापि गोर्गमनक्रियाभावे गवि गौरिति व्यपदेशो भवतीति गोपदस्य गोरूपार्थो व्युत्पत्यर्थक्रियया कालतो देशतश्च न नियत इति नोक्तलक्षणस्य तत्रातिव्याप्तिरित्यर्थः। एवम्भूताभिमन्तव्यमुपदर्शयति-अयमिति- 'यदि' इत्यादिनानन्तरमेवाभिधीयमान इत्यर्थः । अस्य एवम्भूतनयस्य । ननु जलाहरणादिक्रियाविरहकाले घटपदव्युत्पत्तिनिमित्तार्थाभावाद यदि घटस्य न घटपदार्थत्वं तदा प्राणधारणलक्षणजीवन क्रियारूपजीवपदव्युत्पत्तिनिमित्ताभावात् सिद्धस्यापि जीवत्वं न स्यादित्याशङ्कते -

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242