________________
१२८
प्रमोदाविवृतिसंवलितं
निक्षेप एवाभिभतः ॥५॥
"असंक्रमगवेषणपरोऽध्यवसायविशेषः समभिरूढ: " "वत्थूओ संक्रमणं होई अवत्थूणए समभिरूढे त्ति" [२१८५] सूत्रम् | 'सत्स्वर्थेष्वसङ्क्रमः समभिरूढ इति तत्त्वार्थ भाष्यम् [१,३५ ] | तत्त्वं च यद्यपि न संज्ञाभेदेनार्थभेदाभ्युपगन्तृत्वम्, घटपटादिसंज्ञा भेदेन नैगमादिभिरप्यभ्युपगमात् तथापि संज्ञा भेदनियतार्थ भेदाभ्युपगन्तृत्वं र्थभेदातत् । एवम्भूतान्यत्वविशेषणाच्च न तत्रातिव्याप्तिः । अयं खल्वस्याभिमानः यदुत, यदि शब्दो लिङ्गादिभेदेनार्थभेदं प्रतिपद्यते तर्हि संज्ञाभेदेनापि किमित्यर्थभेदं
1
अथ समभिरूढनयं प्ररूपयति
असमेति- 'असङ्क्रमगवेपणपरोऽध्यवसायविशेषः' इति लक्षणम्, 'समभिरूढः' इति लक्ष्यम् । समभिरूढस्यासङ्क्रमणगवेपणापरत्वे सूत्रं प्रमाणयति वत्युओ इति - " वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे" इति संस्कृतम् । तत्त्वार्थभाष्यमपि तत्र प्रमाणतयोपदर्शयति- सत्स्वर्येष्विति । एतावताऽतिव्याप्त्यादिदोषविकलं समभिरूढस्य लक्षणं किमभिमतमित्यपेक्षयामाह-तत्त्वं चेति-समभिरूढत्वं चेत्यर्थः । संज्ञाभेदनियतेति - नैगमादिनये घट - कुम्भादिसंज्ञाsपि घटरूपार्थ एक एवेति न संज्ञाभेदनियतोऽर्थभेद इति न संज्ञाभेदनियतार्थ मेदाभ्युपगन्तृत्वं नैगमादिनय इति न तत्रातिव्याप्तिः । तत् समभिरूढनयत्वम् । व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं यथा समभिरू नये तथैवम्भूतनयेऽपीति संज्ञाभेदनियतार्थमेदाभ्युपगन्तृत्वस्यैवम्भूतनये सत्त्वादतिव्याप्तिः, तद्दारणार्थमेवम्भूतनयत्वे सति संज्ञाभेदनियतार्थ मेदाभ्युपगन्तृत्वं तलक्षणं सत्यन्तविशेषणसंवलितमित्याह--एवम्भूतेति । तंत्र एवम्भूतनये । समभिरूडनयमन्तव्यमुप| दर्शयति- अयमिति - 'यदुत' इत्यादिनाऽनन्तरमेवाभिधीयमान इत्यर्थः।