Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 165
________________ प्रमोदाविवृतिसंवलितं विषयग्रहणान्न समभिरूढाद्यतिव्याप्तिरिति स्मर्तव्यम् । ऋजुसूत्राद् विशेषः पुनरस्येत्थं भावनीयः यदुत, संस्थानादिविशेषात्मा भावघट एव परमार्थः सन् तदितरेषां तत्तुल्यपरिणत्यभावेनाघटत्वात् । घटव्यवहारादन्यत्रापि घटत्वसिद्धिरिति चेत्, न- शब्दाभिलापरूपव्यवहारस्य सङ्केतविशेषप्रतिसंधाननियन्त्रितार्थमात्रवाचकतास्वभावनियम्यतया विषयतथात्वेऽतन्त्रत्वात्, ततोऽपि विशेषिततम मेवम्भूतनयो गृह्णाति, साम्प्रतस्तु विशेषिततरं गृह्णातीति विशेषिततराग्राहित्वान्न समभिरू दैवम्भूतयोरतिव्याप्तिरित्यर्थः । ऋजुसूत्रात् समभिरूढस्य कथं विशेषिततरग्राहित्यमित्यपेक्षायामाह - ऋजुसुत्रादिति । अस्य साम्प्रतनयस्य । इत्थं 'यदुत' इत्यादिना - ऽनन्तरमेव वक्ष्यमाणप्रकारेण । तदितरेषां भावघटभिन्नानां नामस्थापना- द्रव्यघटानाम् । तत्तुल्येति भावघटपरिणतिसदृशेत्यर्थः । भावघटपरिणतिर्जलाहरणाद्यर्थक्रियाकारित्वस्वरूपा, न तादृशी परिणति घटादीनामिति तुल्यपरिणत्यभावेन नामघटादीनां घटत्वाभावादित्यर्थः । यथा भावघटे घटव्यवहारस्तथा नामघटादावपीति 'नामघटायो घटाघटत्वेन व्यवह्रियमाणत्वाद् भावघटवद्' इत्यनुमाना जमघटादीनां घटत्वसिद्धिरिति शङ्कते घटव्यवहारादिति । अन्यत्रापि नामघटादावपि । घटत्वेन व्यवह्रियमाणत्वं नास्त्येव नामघटादावि सिद्धस्तादृशो हेतुः घटपदेनाभिधीयमानत्वलक्षणो घटव्यवहारस्तु यत्र यत्र घटपदसङ्केतः क्रियते तत्र तत्र घटत्वाभावेऽपि घटपदसङ्केतविषयत्वस्वाभाव्यादेव जायत इत्यनेकान्तिक इति समाधत्ते -- नेति । विषयतथात्वे स्वविषयस्य व्यवह्रियमाणस्य घटत्वे । अतन्त्रत्वाद् अनिमित्तत्वात् । जलाहरणाद्यर्थक्रियाथिनां घटानयनाहियोचवू त्यादिलक्षणव्यवहारविषयत्वं तु घटत्वनियतमपि नामघटादावसिद्धमेवेति न ततोऽपि घटत्वसिद्धिरित्याह-प्रवृत्त्यादीति पर ११६ - +

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242