________________
प्रमोदाविवृतिसंवलितं
विषयग्रहणान्न समभिरूढाद्यतिव्याप्तिरिति स्मर्तव्यम् । ऋजुसूत्राद् विशेषः पुनरस्येत्थं भावनीयः यदुत, संस्थानादिविशेषात्मा भावघट एव परमार्थः सन् तदितरेषां तत्तुल्यपरिणत्यभावेनाघटत्वात् । घटव्यवहारादन्यत्रापि घटत्वसिद्धिरिति चेत्, न- शब्दाभिलापरूपव्यवहारस्य सङ्केतविशेषप्रतिसंधाननियन्त्रितार्थमात्रवाचकतास्वभावनियम्यतया विषयतथात्वेऽतन्त्रत्वात्, ततोऽपि विशेषिततम मेवम्भूतनयो गृह्णाति, साम्प्रतस्तु विशेषिततरं गृह्णातीति विशेषिततराग्राहित्वान्न समभिरू दैवम्भूतयोरतिव्याप्तिरित्यर्थः । ऋजुसूत्रात् समभिरूढस्य कथं विशेषिततरग्राहित्यमित्यपेक्षायामाह - ऋजुसुत्रादिति । अस्य साम्प्रतनयस्य । इत्थं 'यदुत' इत्यादिना - ऽनन्तरमेव वक्ष्यमाणप्रकारेण । तदितरेषां भावघटभिन्नानां नामस्थापना- द्रव्यघटानाम् । तत्तुल्येति भावघटपरिणतिसदृशेत्यर्थः । भावघटपरिणतिर्जलाहरणाद्यर्थक्रियाकारित्वस्वरूपा, न तादृशी परिणति
घटादीनामिति तुल्यपरिणत्यभावेन नामघटादीनां घटत्वाभावादित्यर्थः । यथा भावघटे घटव्यवहारस्तथा नामघटादावपीति 'नामघटायो घटाघटत्वेन व्यवह्रियमाणत्वाद् भावघटवद्' इत्यनुमाना जमघटादीनां घटत्वसिद्धिरिति शङ्कते घटव्यवहारादिति । अन्यत्रापि नामघटादावपि । घटत्वेन व्यवह्रियमाणत्वं नास्त्येव नामघटादावि सिद्धस्तादृशो हेतुः घटपदेनाभिधीयमानत्वलक्षणो घटव्यवहारस्तु यत्र यत्र घटपदसङ्केतः क्रियते तत्र तत्र घटत्वाभावेऽपि घटपदसङ्केतविषयत्वस्वाभाव्यादेव जायत इत्यनेकान्तिक इति समाधत्ते -- नेति । विषयतथात्वे स्वविषयस्य व्यवह्रियमाणस्य घटत्वे । अतन्त्रत्वाद् अनिमित्तत्वात् । जलाहरणाद्यर्थक्रियाथिनां घटानयनाहियोचवू त्यादिलक्षणव्यवहारविषयत्वं तु घटत्वनियतमपि नामघटादावसिद्धमेवेति न ततोऽपि घटत्वसिद्धिरित्याह-प्रवृत्त्यादीति पर
११६
-
+