Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दीहारिभद्रीय वृत्तौ
॥ ३५ ॥ है
अत्र कश्चिदाह- किमिति महान् मत्स्यः ? किं वा तस्य तृतीयसमये निजदेशे समुत्पादः । त्रिसमयाहारकत्वं वा कल्प्यते? इति, अत्रोच्यते स एव हि महामत्स्यस्त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्रातिसूक्ष्मः, चतुर्थादिषु चातिस्थूरः, त्रिसमयाहारक एव च योग्य इत्यतस्तद्ग्रहणं इति, अन्ये तु व्याचक्षते - त्रिसमयाहारक इति आयामविष्कम्भसंहारसमयद्वयं वचिसंहरणोत्पादसमयश्चैते त्रयः समयाः, विग्रहाभावाच्चाहारक एतेष्वित्यतः उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्वातस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रसंगाद्, अलं प्रसंगेनेति गाथार्थः । एवं तावज्जघन्यमवधिक्षेत्रमुक्तमिदानीमुत्कृष्ट विभागमभिधातुकाम आह—
सव्वबहुअगणिजीवा० ।। (*४९-९०) ।। सर्वेभ्यो-विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवो, न भूतभविष्यद्धयो नापि शेषजीवेभ्यः, कुतः ?, असम्भवात्, अग्रयश्च ते जीवाश्च अग्निजीवाः सर्वबहवश्च ते अग्रिजीवाश्च सर्वबह्वनिजीवाः, निरन्तरमिति क्रियाविशेषणं, यावद् यावत्परिमाणं भृतवन्तो व्याप्तवन्तः क्षेत्रम् - आकाशम् एतदुक्तं भवति-नैरन्तर्येण विशिष्टसूचिरचनया यावद् भृतवन्त इति, भूतकालनिर्देशश्चाजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पियामित्यस्यार्थस्य ख्यापनार्थम्, इदमनन्तरोदितविशेषणं क्षेत्रमेकदिकमपि भवति अत आह-सर्वदिक्कम्, अनेन सूचीपरिभ्रमणप्रमितमेवाह, परमश्चासाववधिश्च परमावृधिः क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत् क्षेत्रमित्युक्तं भवति, अथवा सर्वबह्वग्निजीवा निरतरं यावद् भृतवन्तः क्षेत्र
अवधेरुत्कृष्टं क्षेत्र
॥ ३५ ॥
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238