Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 185
________________ नन्दी वृत्ती ॥६५॥ 44ESCIENCCC से 'तंजहा-ओगिण्हणते त्यादि, अवगृह्यतेऽनेनेति अवग्रहणं, करणे ल्युट्, व्यञ्जनावग्रहप्रथमसमयप्रविष्टशब्दादिद्रव्यादानप-8 ईहापाय|रिणाम इत्यर्थस्तद्भावः अवग्रहणता, धार्यतेऽनेनेति धारणं उप-सामीप्येन धारणं उपधारण व्यञ्जनावग्रहाद्धाया आ(व्या)दिसमये- पर्याया: | प्ववसानान्तं प्रतिसमयमेव शब्दादिद्रव्यादानधारणपरिणाम इति भावना, तद्भाव उपधारणता, श्रूयतेऽनेनेति श्रवणं एकसामा-14 |यिकसामान्यार्थावग्रहावबोधपरिणाम इत्युक्तं भवति तद्भावः श्रवणता, अवलम्बत इत्यवलम्बनं, 'कृत्यल्युटो बहुल' मिति वचनात् । कर्मणि ल्युट्. तद्भावः अवलम्बनता -विशेषसामान्यार्थावग्रह इवि भावार्थः, तथा हि उत्तरोत्तरधर्मजिज्ञासायां सत्यां शब्दादिज्ञानमेवावलम्ब्यहादयः प्रवर्त्तन्ते-किमयं शांखः किं वा शाङ्ग इत्यतस्तदनन्तरमेवेहादिप्रवृत्तेर्विशेषसामान्यार्थावग्रहोऽवलम्बन मिति, | एवमुत्तरोत्तरधर्मजिज्ञासायां सत्यां विशेषसामान्यार्थावग्रहेषु मर्यादया धावता. मेधोच्यते, यावदधिगच्छति, यथा-शांखः स किं मन्द्रः किं वा तार इत्यादि, यत्र व्यञ्जनावग्रहो नास्ति तत्राद्यभेदद्वयाभाव इति । 'से तं उग्गहें' सोऽयमवग्रहः । .. 'से किं त' मित्यादि, सूत्रम् ॥ ३२-१७५)॥ निगदसिद्धं यावत् आभोगनता ईहा, अर्थावग्रहसमयसमनन्तरमेव सद्भुतार्थविशेषाभिमुखमालोचनमाभोगनमुच्यते तद्भाव आभोगनता, मृग्यतेऽनेन परिणामकरणेनेति मार्गणं, सद्भूतार्थविशेषामिमुखमेव | तदूर्ध्वमन्वयव्यतिरेकधर्मान्वेषणमिति हृदयं, तद्भावो मार्गणता, एवमन्विष्यतेऽनेनेति गवेषणं. तत ऊर्ध्वं सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्माध्यासेनालोचनमिति गर्भः, तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्भूतार्थविशेषचिन्तनं चिन्ता, विमर्षणं विमर्षः-क्षयोपशमविशेषादेवोवं स्पष्टतरावबोधतः सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मालोचनं विमर्षः, नित्यानित्यादिद्रव्यभावालोचनमित्यन्ये । 'से तं ईहा'। RE-05-16448

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238