Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
चूलाः द्वादशांग्य आराधना| विराधना
फलं
नन्दी
'इच्चेय' मित्यादि (५८-२४७ )॥ इत्येतस्मिन् द्वादशाङ्गे गणिपिटक इति पूर्ववत्, अनन्ता भावाः प्रज्ञप्ता इति योगः, हारमद्रायतितत्र भवन्तीति भावाः जीवादयः पदार्थाः, एते च जीवपुद्गलानन्तत्वात् अनन्ता इति, तथा अनन्ता अभावाः, सर्वभावानामेव वृत्ती
पररूपेणासत्त्वात् त एवानन्ता अभावा इति, स्वपरसत्ताभावाभावोभयाधीनत्वात् वस्तुतत्त्वस्य, तथाहि-जीवो जीवात्मना भावोऽ॥११४॥
| जीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसंगाद्, अत्र बहु वक्तव्यं तत्सु नोच्यते गमनिकामात्रत्वात् आरम्भस्य, अन्ये तु धर्मापेक्षया अनन्ता भावाः अनन्ता अभावाः प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इति व्याचक्षते, तथाऽनन्ता हेतवः, तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, ते चानन्ता वस्तुनोऽनन्तधर्मात्मकत्वात् तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः, सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति, यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथाऽनन्तानि कारणानि मृत्पिण्डतन्त्वादीनि घटपटादिनिर्वर्त्तकानि, तथाऽनन्तान्यकारणानि, सर्वकारणानामेव कार्यान्तराकारणत्वात्, न हि मृत्पिण्डः पटं निवर्त्तयतीति, एवं भावाभावाः हेत्वहेतवः कारणाकरणानि, जीवा:-प्राणिनस्तथा अजीवा-यणुकादयः, तथा भव्या:-अनादिपारिणामिकभव्यभावयुक्ताः, एतेऽनन्ताः प्रज्ञप्ताः, तथा अभव्या:-अनादिपारिणामिकाभव्यभावयुक्ताः, एतेऽनन्ताः प्रज्ञप्ताः इति योगः, तथा सिद्धा अनन्ताः, तथा अनन्ता असिद्धाः प्रज्ञप्ता इति, इह भव्याभव्यानामानन्त्येऽभिहिते अनन्ता असिद्धा इति यत् पुनरभिधानं तत् | सिद्धेभ्योऽनन्तगुणत्वख्यापनार्थमिति ॥ साम्प्रतं द्वादशांगविराधनाराधनानिष्पन्नं त्रैकालिकं फलमुपदर्शयबाह-इच्चेय' मित्यादि, इत्येतद् द्वादशांग गणिपिटकं अतीतकाले अनन्ता जीवा आज्ञया विराध्य चतुरन्तं संसारकान्तारं 'अणुपरियर्टिसु' ति अनुपरावृचिमन्त आसन् , इदं हि द्वादशांगं सूत्रार्थोभयभेदन त्रिविधं, ततश्चाज्ञया-गूत्राज्ञयाऽभिनिवेशतोऽन्यथापाठादिलक्षणया विराध्य
FAGAKAKAASASAKA
SHN54545454
॥११४॥
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238