Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 236
________________ 4 श्रुतस्यविषयःभेदा लाभश्च नन्दी- न्तमाह-से जहा णामेत्यादि, तद्यथा नाम पंचास्तिकाया:-धर्मास्तिकायादयः न कदाचिन्नासन् न कदाचित्र सन्ति न कदाचिन हारिभद्राय भविष्यन्ति, अभूवन् भवन्ति भविष्यन्ति च, धुवा इत्यादि पूर्ववत् , 'एवामेवे' त्यादि निगमनं निगदसिद्धमेव । 'से समासओं वृत्ती इत्यादि, तद् द्वादशांगं समासतश्चतुर्विधं प्रज्ञप्तं इत्यादि, प्रायो गतार्थमेव, नवरं द्रव्यतः श्रुतज्ञानी उपयुक्तः सन् सर्वद्रव्याणि जा॥११६॥ नाति पश्यतीत्यत्राभिन्नदशपूर्वधरादिः श्रुतकेवली परिगृह्यते, तदारतो भजना, सा पुनर्मलविशेषतो ज्ञातव्येति, अत्राह-ननु पश्य तीति कथ?, सकलगोचरदर्शनायोगाद्, अत्रोच्यते, प्रज्ञापनायां श्रुतज्ञानपश्यत्तायाः प्रतिपादितत्वादनुत्तरविमानादीनां चाले- ख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपत्तेः, एवं क्षेत्रादिष्वपि भावनीयमिति, अन्ये तु न पश्यतीत्यभिदधति ॥ साम्प्रतं संगहगाथामाह 'अक्खर सन्नी' त्यादि (*८६-२४९)। इयं गताथैव, नवरं सप्ताप्येते सप्रतिपक्षाः, ते चैवं-अक्षरश्रुतमनक्षरश्रुतमित्यादि, है इदं पुनः श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्पं, तथा प्रायो गुर्वायत्ततत्वात् पराधीनं, अतो विनेयानुग्रहार्थ यो यथा चास्य लाभस्तथा दर्शययन्नाह___'आगम' गाहा।।(*८७-२८९) आगमनमागमः, आङ अभिविधिमर्यादार्थत्वात् अभिविधिना मर्यादया वागमः-परिच्छेद आगमः, स च केवलमत्यवधिलक्षणोऽपि भवति अतस्तद्व्यवच्छित्यर्थमाह-शास्यतेऽनेनेति शास्त्र-श्रृंत, आगमग्रहणं तु पष्टितंत्रादिकुशास्त्रव्यवच्छेदार्थ, तेषामनागमत्वात् , सम्यकपरिच्छेदात्मकत्वाभावादित्यर्थः, शास्त्रतया च रूढत्वात् , तत आगम 454545% ॥१६॥

Loading...

Page Navigation
1 ... 234 235 236 237 238