Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दी
हारिभद्रीय वृत्तौ
॥११७॥
AAAAAAAवर
श्वासौ शास्त्रं च आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिहणं, यद् बुद्धेर्गुणैर्वक्ष्यमाणलक्षणैः करणभूतैरष्टभिदृष्टं तद् ब्रुक्ते बुद्धिगुणाः | श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तं तदेव ग्रहणं ब्रुवते, के ?-पूर्वेषु विशारदा-विपश्चितो धीराः, व्रतानुपालने स्थिरा इत्यर्थः, अयं श्रवणगाथार्थः ॥ बुद्धिगुणैरष्टभिरित्युक्तं ते चामी
विधिः _ 'सुस्सूसति' गाहा ॥(*८८-२४९॥ विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषते, पुनः पृच्छति प्रतिपृच्छति, तत् श्रुतमशंकित करोतीति भावार्थः, पुनः कथितं सच्छृणोति, श्रुत्वा गृह्णाति, गृहीत्वा चहते-पर्यालोचयति, किमिदमित्थमुतान्यथेति, चशब्दः समुच्चयार्थः, अपिशब्दात् पर्यालोचयन किंचित् स्वबुध्ध्याऽप्युत्प्रेक्षते, ततस्तदनन्तरमपोहते च, एवमेतद्यदादिष्टमाचार्येणेति, पुनस्तमर्थमागृहीतं धारयति करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्तिहेतुर्भवति, तदावरणक्षयोप| शमादिनिमित्तत्वात्तस्येति, अथवा यद्यदाज्ञापयति गुरुस्तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छतीति, पूर्वसन्दिष्टश्च सर्वकार्याणि | कुर्वन् पुनः पृच्छति प्रतिपृच्छति पुनरादिष्टः सन् सम्यक् शृणोति, शेषं पूर्ववत् ॥ बुद्धिगुणा व्याख्यातास्तत्र शुश्रूषतीत्युक्तं, इदानीं श्रवणविधिप्रतिपादनायाह
- 'मू' गाहा (*८९-२४९)॥ मूकमिति मूकं शृणुयात् , एतदुक्तं भवति-प्रथमश्रवणे संयतगात्रस्तूष्णीं खल्वासीत, तथा है ॥११ का द्वितीये हुंकारं च, ईषद्वन्दनं कुर्यादित्यर्थः, तृतीये बाढकारं कुर्यात-बाढमेवमेतनान्यथेति, चतुर्थश्रवणे गृहीतपूर्वापरसूत्राभिप्रायो
मनाक् प्रतिपृच्छां कुर्यात् , कथमेतदिति, पंचमे तु मीमांसां कुर्यात् , मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत् , ततः षष्ठे
REGNANC4
Loading... Page Navigation 1 ... 235 236 237 238