Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 192
________________ नन्दी वृत्ती | अंशा इत्यनान्तरं त एव वस्तूनि भेदवस्तुनि, कथं ?, यतो नानवगृहीतमीयते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति, माअवग्रहाहारिभद्रीय दयो भेदाः | अथवा काका नीयते, एवं भवंति चत्वार्याभिनिबोधिकज्ञानस्य भेदवस्तूनि ?, समासेन संक्षेपण, विशिष्टावग्रहादिस्वरूपापेक्षया, Mन तु विस्तरत इति, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात्तस्यति गाथार्थः ॥ इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपं ॥७२॥ प्रतिपिपादयिषयाऽह अत्थाणं गाहा ॥ (*७६-१८४ ) ॥ तत्रार्यन्त इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत् , ते च रूपादयः, । तेषामर्थानां प्रथमदर्शनानन्तरं च ग्रहण अवग्रहं, त्रुवत इति योगः, आह-वस्तुनः सामान्यविशेषात्मकतया विशिष्टत्वात् किमिति & प्रथमं दर्शनं ततो ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात , दर्शनस्य चाल्पावरणत्वादिति, 'तथे' त्यानन्तर्ये, विचारणं पयोंलोचनं, अर्थानामिति वर्तते, ईहनमीहा तां, ब्रुवत इति सम्बन्धः, विविधोऽवसायो व्यवसायः-निर्णयस्तं व्यवसायं च, अर्थानामिति वर्तते, अपायं ब्रुवत इति संसर्गो, धृतिर्धरणं, अर्थानामिति वर्तते, परिच्छिन्नस्य वस्तुनः अविच्युतिस्मृतिवासनारूपं, तद्धरणं पुन| धारणां, ब्रुवत इत्यनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवते, अन्ये त्वेवं पठन्ति 'अत्थाणं उग्गहणम्मि उग्गहों इत्यादि, अत्राप्यर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेष इत्येवं ब्रुवते, एवमीहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति गाथार्थः॥ | इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह. उग्गहो० गाहा ॥*७७-१८४)। इहाभिहितलक्षणोऽर्थावग्रहो यो जघन्यो-नैश्चयिकः स खल्वेकं समयं, भवतीति सम्बन्धः, BHASHASANSAR

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238