Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 198
________________ नन्दी हाारभद्रीय वृत्ती ॥७८॥ CACAAAAAAAAAA 'से किं तमित्यादि, ॥ (४०-१८९)॥ अथ किं तत् संज्ञिश्रुतं?, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी तस्य श्रुतं २ त्रिविधं | संज्ञिश्रुतं | प्रज्ञप्त, संज्ञिन एव त्रिभेदत्वात् , त्रिभेदतामेव दर्शयन्नाह-तद्यथा-कालिक्युपदेशेन हेतूपदेशेन दृष्टिवादोपदेशेन. 'से किंत'मित्यादि, अथ कोऽयं कालिक्युपदेशन, इहादिपदलोपाद्दीर्घकालिकी कालिक्युच्यते, संज्ञेति प्रकरणाद्गम्यते, उपदेशनमुपदेशः, कथनमित्यर्थः, दीर्घकालिक्याः सम्बन्धी दीर्घकालिक्या वा मतेनोपदेशो दीर्घकालिक्युपदेशस्तेन यस्य प्राणिनः अस्ति-विद्यते ईहा-शब्दाद्यवग्रहणोत्तरकालमन्वयव्यतिरेकधर्मालोचनचेष्टेत्यर्थः, तथा अपोहो-व्यतिरेकधर्मपरित्यागेनान्वयधर्माध्यासेनावधारणात्मकः प्रत्यय इति भावना,यथा शब्द इति,तथा मार्गणा विशेषधर्मान्वेषणारूपा संविदित्यर्थः,यथा शब्दः सन् किं शाङ्खः किंवा शाङ्ग इति,तथा गवेषणा व्यतिरेकधर्मस्वरूपालोचना,यथा खरादय एवंभूता इति,तथा चिन्ता अन्वयधर्मपरिज्ञानाभिमुखा चेष्टा, यथा मधुरत्वादयस्त्वेवंभूता | इति,तथा विमर्षः त्याज्यधर्मपरित्यागेनोपादेयधर्मग्रहणाभिमुख्य,यथान शाङ्गः,प्रायोऽयं मधुरत्वादियोगाच्छाङ्ख इति, सेणं सन्नीति | लब्भति'त्ति स प्राणी णमिति वाक्यालङ्कारे संज्ञीति लभ्यते, मनःपर्याप्त्या पर्याप्तोऽवग्रहादिमतिज्ञानसम्पत्समन्वित इत्यर्थः, अथवा यस्यास्ति ईहा-किमेतदिति चेष्टा इदमित्यवगमोऽपोहः अवगतार्थाभिलाषे तत्प्रार्थना मार्गणा तदप्राप्तौ च निपुणोपाय : तोऽन्वेषणं गवेषणा प्रयुक्तप्रतिहतोपायस्योपायान्तरचिन्तनं चिन्ता तद्विषय एवोपायालोचनात्मकः प्रत्ययो विमर्षः स संज्ञीति ॥७८॥ लभ्यते,अयं च गर्भव्युत्क्रान्तिकः पुरुषादिरौपपातिकश्च देवादिरेव मनःपर्याप्तिप्रयुक्तो विज्ञेयः, यथोक्तविशेषणकलापसमन्वितत्वात् , न पुनरन्यस्तद्विशेषणविकल इति, आह च-'जस्से' त्यादि,यस्य नास्ति ईहाऽपोहो मार्गणा गवेषणा चिन्ता विमर्षः सोऽसंझीति लभ्यते, अयं च सम्मूच्छिमपंचेन्द्रियविकलेन्द्रियादिज्ञेयः, अल्पमनोलब्धित्वादभावाच्च, 'सेत'मित्यादि,सोऽयं कालिक्युपदेशेन । SEHSAE3

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238