Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दीहारिभद्रीय वृत्त
॥ ८९ ॥
चिभ्यश्वाकारस्य स्वभावभेदेन व्यावृत्तत्वात्, स्वभावभेदेन व्यावृत्त्यनभ्युपगमे च घटादिपर्यायाण (मेकत्वप्रसंगाद्, अतः स्वभावभेदनिबन्धनत्वादकारपर्यायता तेषामिति, तस्मात् स्वपरपर्यायापेक्षया खल्वकारस्य सर्वद्रव्यपर्यायराशितुल्यधर्मताऽविरोध इति, न चेदमुत्सूत्रं, यूत आगमेऽप्युक्तम्- "जे एगं जाणति से सव्वं जाणति, जे सव्वं जाणति से एगं जाणति"त्ति, अस्यायमर्थः-य एकं वस्तूपलभते सर्वपर्यायैः स सर्वमुपलभते, कश्चैकं सर्वपर्यायैरुपलभते य एव सर्व सर्वथोपलभत इत्यतः सर्वमजानानो नाकारं सर्वथेोपलभत इति, ततश्चास्मात् सूत्रात् सर्वमेव वस्तु सर्वद्रव्यपर्यायराशितुल्यधर्मकं, इह त्वक्षराधिकारादक्षरमुक्तमिति, इतश्चैतदकाराद्येव प्रतिपत्तव्यं, अस्मिन्नेवाधिकारेऽक्षरस्यानन्तभागो नित्योद्घाटित इत्युपन्यस्तत्वात्, केवलस्य चाविभागसम्पूर्णत्वेन निकृष्टानन्तभागासम्भवाद् अवधेरप्य संख्येयप्रकृतिभेदभिन्नत्वान्मनः पर्ययज्ञानस्याप्योघत ऋजुविपुलभेदभिन्नत्वात् पारिशेष्यादकारादिश्रुताक्षर [स्य ] निबन्धनज्ञानस्यैवासावित्यलं प्रसंगेन, 'सेतं' इत्यादि निगमनद्वयमपि निगदसिद्धम् ॥
'से किं त' मित्यादि ॥ ( ४४-२०२ ) ॥ अथ किं तद्गमिकम् ?, इहादिमध्यावसानेषु किञ्चिद्विशेषतः पुनस्तत्सूत्रोच्चा| रणलक्षणो गमः, यथाऽऽदिविशेषे तावत्' 'इह छज्जीवणिके' त्यादि, गमा अस्य विद्यन्ते इति 'अत इनिठना' विति ( ५-२-१२५) गमिकं, इदं च प्रायोवृत्त्या दृष्टिवादे, तस्यैव गमबहुलत्वात्, अगमिकं तु प्रायो गाथाद्यसमानग्रन्थत्वात् कालिकश्रुतमाचारादि, 'से त' मित्यादि निगमनद्वयं कण्ठ्यं । 'तं समासतो दुविहं पन्नत्तं तद्गमिकागामिकं अथवा तदोषश्रुतमर्हदुपदेशानुसारि समासतः संक्षेपेण द्विविधं प्रज्ञप्तं, तद्यथा अङ्गप्रविष्टं अङ्गबाह्य च, अत्राह - पूर्वमेव चतुर्दशभेदोद्देशाधिकारे अङ्गप्रविष्टं च अंगवा चेत्युपन्यस्तं किमर्थं पुनस्तत् समासत इत्याद्युपन्यासेन तदेवोद्दिश्यत इति १, अत्रोच्यते, सर्वभेदानामेवाङ्गानङ्गप्रविष्टभेदद्वयान्त
गमिकादि
॥ ८९ ॥
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238