SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ नन्दीहारिभद्रीय वृत्त ॥ ८९ ॥ चिभ्यश्वाकारस्य स्वभावभेदेन व्यावृत्तत्वात्, स्वभावभेदेन व्यावृत्त्यनभ्युपगमे च घटादिपर्यायाण (मेकत्वप्रसंगाद्, अतः स्वभावभेदनिबन्धनत्वादकारपर्यायता तेषामिति, तस्मात् स्वपरपर्यायापेक्षया खल्वकारस्य सर्वद्रव्यपर्यायराशितुल्यधर्मताऽविरोध इति, न चेदमुत्सूत्रं, यूत आगमेऽप्युक्तम्- "जे एगं जाणति से सव्वं जाणति, जे सव्वं जाणति से एगं जाणति"त्ति, अस्यायमर्थः-य एकं वस्तूपलभते सर्वपर्यायैः स सर्वमुपलभते, कश्चैकं सर्वपर्यायैरुपलभते य एव सर्व सर्वथोपलभत इत्यतः सर्वमजानानो नाकारं सर्वथेोपलभत इति, ततश्चास्मात् सूत्रात् सर्वमेव वस्तु सर्वद्रव्यपर्यायराशितुल्यधर्मकं, इह त्वक्षराधिकारादक्षरमुक्तमिति, इतश्चैतदकाराद्येव प्रतिपत्तव्यं, अस्मिन्नेवाधिकारेऽक्षरस्यानन्तभागो नित्योद्घाटित इत्युपन्यस्तत्वात्, केवलस्य चाविभागसम्पूर्णत्वेन निकृष्टानन्तभागासम्भवाद् अवधेरप्य संख्येयप्रकृतिभेदभिन्नत्वान्मनः पर्ययज्ञानस्याप्योघत ऋजुविपुलभेदभिन्नत्वात् पारिशेष्यादकारादिश्रुताक्षर [स्य ] निबन्धनज्ञानस्यैवासावित्यलं प्रसंगेन, 'सेतं' इत्यादि निगमनद्वयमपि निगदसिद्धम् ॥ 'से किं त' मित्यादि ॥ ( ४४-२०२ ) ॥ अथ किं तद्गमिकम् ?, इहादिमध्यावसानेषु किञ्चिद्विशेषतः पुनस्तत्सूत्रोच्चा| रणलक्षणो गमः, यथाऽऽदिविशेषे तावत्' 'इह छज्जीवणिके' त्यादि, गमा अस्य विद्यन्ते इति 'अत इनिठना' विति ( ५-२-१२५) गमिकं, इदं च प्रायोवृत्त्या दृष्टिवादे, तस्यैव गमबहुलत्वात्, अगमिकं तु प्रायो गाथाद्यसमानग्रन्थत्वात् कालिकश्रुतमाचारादि, 'से त' मित्यादि निगमनद्वयं कण्ठ्यं । 'तं समासतो दुविहं पन्नत्तं तद्गमिकागामिकं अथवा तदोषश्रुतमर्हदुपदेशानुसारि समासतः संक्षेपेण द्विविधं प्रज्ञप्तं, तद्यथा अङ्गप्रविष्टं अङ्गबाह्य च, अत्राह - पूर्वमेव चतुर्दशभेदोद्देशाधिकारे अङ्गप्रविष्टं च अंगवा चेत्युपन्यस्तं किमर्थं पुनस्तत् समासत इत्याद्युपन्यासेन तदेवोद्दिश्यत इति १, अत्रोच्यते, सर्वभेदानामेवाङ्गानङ्गप्रविष्टभेदद्वयान्त गमिकादि ॥ ८९ ॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy