________________
सादिसपर्य
नन्दी- कथं केवलपर्यायपरिमाणतुल्यं भवेद्?, उच्यते, नन्वत्राप्यपर्यवसितश्रुताधिकारादकारायेव गम्यते, अथ मतिः- 'सव्वजीवाणंपिय णं हारिभद्रीय अक्खरस्स अणतभागो णिच्चुग्धाडिओ'त्ति सर्वजीवग्रहणान्न तच्छुतं, यतः समस्तद्वादशांगविदां तत् समस्तमिति, यद्येवं वृत्ती केवलस्यापि न सर्वजीवानामेवानन्तभागोऽवतिष्ठते, सर्वज्ञसद्भावात्, अतो न तत् केवलाक्षरमपि, कस्यासावनन्तभागोऽस्तु , तथा
अविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणादपिशब्दाद्वा केवलिनो बिहायान्येषां अनन्तभागो गम्यते, अत एव किं न श्रुतात्मकम॥८८॥
क्षरमंगीकृत्य समस्तद्वादशांगविदो विहायान्येषां अनन्तभागो गम्यते, तस्मात् स्वपरपर्यायभेदादुभयमप्यविरुद्धामति, तथाऽप्यत्रा
पर्यवसितश्रुताधिकारादकाराद्येव न्यायानुपाति, तत् पुनरनन्तपर्यायम् , इह अ अ अ इत्यकार उदात्तोऽनुदात्तः स्वरितः,स सानुना६ सिको निरनुनासिकश्च, एवं दीर्घः प्लुतः, एवं तावदष्टादशप्रभेदं अवर्ण ब्रवते,एवं यावतः केवल एवाकारो लभते सानुनासिकादीन है तथाऽन्यवर्णसहितो वा तेऽप्यस्य स्वपर्यायाः,ते चानन्ताः,कथम्?, अभिलाप्यबाह्यनिमित्तभेदात्,तस्य च परमाणुद्ध्यणुकादिभेदेनानन्त
त्वात् ,ध्वनेश्च तथा तथाभिधायकत्वपरिणामे सति तत्तदर्थप्रतिपादकत्वादिति, सांकेतिकशब्दार्थसम्बन्धवादिमतमप्यावश्यके दिनयाधिकारे विचारयिष्यामः,ततश्चैते स्वपर्यायाः,शेषास्तु सर्व एव घटादिपर्यायाःपरपर्याया इति,ते पुनः स्वपर्यायेभ्योऽनन्तगुणाः,
| आह-स्वपर्यायाणां तावत्पर्यायता युक्ता, घटादिपर्यायास्तु विभिन्नवत्वाश्रितत्वात् कथं तस्येति व्यपदिश्यन्ते?, उच्यते, स्वपर्यायविशेषणोपयोगात्, इह ये यस्य स्वपर्यायविशेषणतयोपयुज्यन्ते ते तस्य पर्यायतया व्यपदिश्यन्ते,यथा घटस्य रूपादयः, उपयुज्यन्ते चाकारस्वपर्यायाणां विशेषणतया घटादिपर्यायाः, तानन्तरेण स्वपर्यायव्यपदेशाभावात्, तथा वस्तुस्थित्यापि च घटादिपर्याया अभावरूपेणाकारस्य व्यवस्थितत्वाद् घटादिपर्यायाणां अकारपर्यायतायामविरोध इति, इयमत्र भावना-घटादिपर्यायाणामनन्तत्वा-|
44-%%AHARACARRC
॥८८॥