________________
नन्दीहारिभद्रीय
वृत्ती
॥८७॥
RAHASRANSAR
%82-%
मिति, तृतीयभंगस्तु सम्यक्त्वाप्ती भव्यस्य मिथ्याश्रुतं,चतुर्थ भंगं पुनरुपदर्शयन्नाह--'अभव'इत्यादि,अभवसिद्धिका-अभव्यस्तस्य सादिसपर्यश्रुतं मिथ्याश्रुतं अनाद्यपर्यवसितं,तस्य सदैव संसारवर्तित्वात् । इह च श्रुतस्योपक्रान्तत्वात् तृतीयचतुर्थभंगकद्वये अनादिश्रुतभाव उक्तो- वसितादि ऽन्यथा मतेरप्ययमेव द्रष्टव्यः,मतिश्रुतयोरन्योऽन्यानुगतत्वात् , अत्राह-सोऽनादिज्ञानभावः किं जघन्य उत विमध्यम आहोश्विदु-13 त्कृष्ट इति, अत्रोच्यते,जघन्यो विमध्यमो वा,न तूत्कृष्टः,कथं?,यतस्तस्येदं प्रमाणं'सब्वागासपदेसग्ग मित्यादि,सर्व च तदाकाशं च* सर्वाकाशं, लोकालोकाकाशमित्यर्थः, तस्य प्रदेशाः, प्रकृष्टा देशाः प्रदेशा निर्विभागाभागा इत्यर्थः, तेषामग्रं-परिमाणं सर्वाकाशप्रदेशाग्रं, सर्वाकाशप्रदेशैः, किं ?, अनन्तगुणितं अनन्तशो गुणितं अनन्तगुणितं, एकैकस्मिन्नाकाशप्रदेशे अनन्तागुरुलघुपर्यायभावात, पर्यायाक्षरं-पर्यायपरिमाणाक्षरं निष्पद्यते, सर्वद्रव्यपर्यायपरिमाण मिति भावार्थः, स्तोकत्वाच्चह धर्मास्तिकायादयो नोक्ताः, अर्थतस्तु गृहीता एव, इह च ज्ञानमक्षरं गृह्यते, तथा तज्ज्ञेयं, तथा अकारादि च, सर्वथाऽप्यविरोध इति, अस्य च सर्वजीवानामपि3 | चाक्षरस्यानन्तभागो नित्योद्घाटितः, सदाप्रावृत इत्यर्थः, स पुनरनन्तभागोऽप्यनेकविधः, तत्र सर्वजघन्यश्चतन्यमात्र, तत्पुनर्न कदाचिदुत्कृष्टावरणस्याप्यात्रियते, जीवस्वाभाव्याद्, आह-च ग्रन्थकारः 'जइ पुण' इत्यादि, यदि पुनः सोऽपि आब्रियेत, ततः किं ?, तेन जीवः अजीवतां प्राप्नुयात् , तेनावृतेन जीवः--चैतन्यलक्षणः स्वलक्षणपरित्यागादजीवतां प्राप्नुयात् , नचैतद् दृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभावातिरस्काराद् , अत्रैव दृष्टान्तमाह- 'सुट्ठवीं' त्यादि, मेघसमुदये चन्द्रसूर्यप्रभाजालतिरस्कारािण सति भवति प्रभा चन्द्रसूर्ययोः, सर्वस्य सर्वथा स्वभावातिरस्कारादिति । अत्राह-'सव्वागासपएसग्गं सव्वागासपदेसहिं अणंतगुणियं पञ्जव
॥८७॥ ग्गक्खरं निष्फज्जती” त्यत्राविशेषितमेवाक्षरमुक्तम्,अविशेषाभिधानाचेदं केवलमिति गम्यते,इह तु श्रुताधिकारादकारादि प्रकृतं यतस्तत्
25A5%
14-4