________________
6455
नन्दीहारिभद्रीय
वृत्ती ॥८६॥
दीसंति हायंता ॥ २०॥ एत्तो उ किलिद्वतरा जीतपमाणादिएहिं निद्दिट्ठा । अतिदूसमत्ति घोरा वाससहस्साई इगवीसं ॥२१॥
कालचक्रंओसप्पिणीए एसो कालविभागो जिणेहिं निद्दिट्ठो । एसोच्चिय पडिलोमं विनेयुस्सपिणीएवि ॥ २२ ॥ एतं तु कालचकं सिस्स
है सादिसपर्य जणाणुग्गहढया भणिय । संखेवेण महत्थो विसेससुत्ताओ णायव्वो ॥ २३॥ 'णोउस्सप्पिणी' मित्यादि, नोउत्सर्पिणीमवस
सितादि पिणीं च प्रतीत्य अनाद्यपर्यवसितं, महाविदेहेष्वेव कालस्यावस्थितत्वादिति भावः, भावतः णमिति पूर्ववत् 'य' इत्यनिर्दिष्टनिर्देशे ये केचन यदा पूर्वाह्नादौ जिनः प्रज्ञप्ता २ भावाः पदार्थाः 'आघविज्जति' ति प्राकृतशैल्या आख्यायन्ते, सामान्यविशेषाभ्यां कथ्यन्त इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदाभिधानेन, प्ररूप्यन्ते नामादिस्वरूपकथनेन, यथा 'पर्यायानभिधेय' मित्यादि, दर्श्यन्ते उपमानमात्रतः यथा गौस्तथा गवय इत्यादि, निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन, उपदयन्ते उपनयनिगमनाभ्यामिति, सकलनयाभिप्रायतो वा तान् भावान् तदा तत्कालापेक्षया प्रतीत्य सादि सपर्यवसितं, एतदुक्तं भवति-प्रज्ञापकोपयोगस्वरप्रयत्नासनविशेषतः प्रतिक्षणमन्यथा चान्यथा चावस्थितेः सादि सपर्यवसितं, तथा चोक्तम्- "उवयोगसरपयत्ताआसणभेदादिया य पतिसमयं । भिन्ना पनवगस्सा सादिसपज्जन्तग तम्हा ॥१॥" अथवा प्रज्ञापनीयभावापेक्षया गतिस्थितियणुकायेकप्रदेशाधवगाहैकादिसमयस्थित्येकवर्णादिप्रतिपादनात् सादिसपर्यवसितं, क्षायोपशमिकभावापेक्षया पुनरनाद्यपर्यवसितं, प्रवाहरूपेण तस्यानाद्यपर्यवसितत्वात् , अथवाऽत्र चतुभंगिका सादि पर्यवसितं १ सादि अपर्यवसितं २ अनादिसपर्यवसितं ३ अनादिअपर्यवासितं ४, ॥८६॥ तत्र प्रथमभंगकप्रदर्शनायाह- 'भवसिद्धियस्स' इत्यादि, भवसिद्धिको-भव्यस्तस्य श्रुतं सम्यक्श्रुतं सादि सपर्यसितं, उपयोगाद्य| पेक्षया भावितमेव, द्वितीयभंगस्तु शून्यः, प्ररूपणामात्रतो वा अभव्यस्य, वर्तमानकालापेक्षया अनागताद्धामधिकृत्य मिथ्याश्रुत
5
513486