Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 211
________________ नन्दीहारिभद्रीय ॥ ९१ ॥ त्रकर्मोदयसाचिव्यजनितात् परिणामविशेषादपश्यन्निव तद्भयमविगणय्य विशिष्टपरलाका क्रियाविमुख एवास्ते सत्त्वः स खलु प्रमाद इति, तद्भेदाः मद्यादयस्तत्कारणत्वाद्, उक्तञ्च - "मज्जं विसय कसाया णिद्दा विगहा य पंचमी भणिया । " फलविपाको दारुणः, उक्तं च- 'श्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितुं हुताशेन । संसारबन्धनगतैर्न तु प्रमादः क्षमः कर्तुम् ॥ १ ॥ अस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि ।। २ ।। यन्न प्रयान्ति पुरुषाः स्वर्गं यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे ॥ ३ ॥ संसारबन्धगतो जातिजराव्याधिमरणदुःखार्त्तः । यन्नोद्विजते सत्त्वः स ह्यपराधः प्रमादस्य ॥ ४ ॥ आज्ञाप्यते यदवशः तुल्योदरपाणिपादवदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य ।। ५ ।। इह हि प्रमत्तमनसः सोन्मादवदनिभृतेन्द्रियाञ्चपलाः । यत् कृत्यं तदकत्वा सततमकार्येष्वाभिपतन्ति ।। ६ ।। तेषामभिपतितानामुद्रान्तानां प्रमत्तहृदयानाम् । वर्द्धन्त एव दोषाः वनतरव इवाम्बुसेकेन ॥ ७ ॥ दृष्ट्वाऽप्यालोकं नैव विश्रम्भितव्यं, तीरं नीताऽपि भ्राम्यते वायुना नौः । लब्ध्वा वैराग्यं भ्रष्टयोगः प्रमादाच्चित्रं व्यावृतो ब्रह्मदत्तो नरेशः ॥ ८ ॥ इत्यादि, एवं प्रतिपक्षद्वारेणाप्रमादस्वरूपादयो वाच्या इति, 'नन्दी' त्यादि सुगमं, सूर्यप्रज्ञप्तिः सूर्यचरितप्रज्ञापनं यस्यां ग्रन्थपद्धतौ सा सूर्यप्रज्ञप्तिः, पौरुषीमण्डलं पुरुषः शंकुः शरीरं वा तस्मानिष्पन्ना पौरुषी द्वयम् अत्र भावना-यदा सर्वस्य वस्तुनः स्वप्रमाणा छायोपजायते तदा पौरुषीति, एतच्च पौरुषीमानं उत्तरायणान्ते दक्षिणायनादौ चैकं दिनभवति, तत ऊर्ध्वमंगुलस्याष्टावेकपष्टिभागा दक्षिणायने बर्द्धन्ते उत्तरायणे च हसतीति, एवं यत्र पौरुषी मण्डले मण्डलेऽन्याऽन्या प्रतिप्राद्यते तदध्ययनं पौरुषीमण्डलं । मण्डलप्रवेशः, यत्र हि चन्द्रसूर्ययोर्दक्षिणोत्तरेषु मण्डलेषु मण्डलान्मण्डलप्रवेशो व्यावर्ण्यते उत्कालिक श्रुतं ॥ ९१ ॥

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238