Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
उत्कालिक श्रुतं
नन्दी-18 भावनाहत्प्रणीतत्वे च प्राधान्यख्यापनार्थमिति, तत्र 'पाददुर्ग २ जो २ रू२ गातदुयगं च २ दो य बाहूओ २ । गीचा १ सिरं हारिभद्रीयलच१ पुरिसो बारसअंगो सुयविसिट्ठो ॥१॥ श्रुतपुरुषस्याङ्गेषु प्रविष्ट, अंगभावव्यवस्थितमित्यर्थः, अथवा 'गणधरकयमंगगयं वृत्ती
जं कत थेरेहिं बाहिरं तं तु । नियतं अंगपविट्ठ अणिययसुय बाहिरं भणियं ॥१॥ तत्राल्पतरवक्तव्यत्वादंगबाह्यमधिकृत्य प्रश्नसू॥९ ॥
त्रमाह-से किंत' मित्यादि, अथ किं तदंगबाह्य , श्रुतपुरुषात् व्यतिरिक्तं अंगबाह्य द्विविधं परोक्षं, तद्यथा-आवश्यकं च आवश्यकव्यतिरिक्तं च, 'से किं त' मित्यादि, अथ किं तदावश्यकम् ?, अवश्यक्रियानुष्ठानादावश्यक, गुणानां वा अभिविधिना वश्यमात्मानं करोतीत्यावश्यकम् , षड्विधं प्रज्ञप्तम् , तद्यथा-सामायिकमित्यादि, "सावज्जजोगविरती १ उकित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स जिंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥१॥" अधिकारगाथा, एतदनुसारेण आवश्यकपि| ण्डार्थो वक्तव्यः, 'से त' मित्यादि, तदेतदावश्यकम् ॥ 'से किं त' मित्यादि, अथ किं तदावश्यकव्यतिरिक्तं?, २ द्विविधं प्रज्ञप्तं, | तद्यथा-कालिकं चोत्कालिकं च, तत्राल्पतरवक्तव्यत्वादुत्कालिकमाधिकृत्य प्रश्नसूत्रमाह-से किं त' मित्यादि, अथ किं तदुत्कालिकम् ?, उत्कालिकमनेकविधं प्रज्ञप्तं, तद्यथा-दशवकालिकं प्रतीतं, कल्पाकल्पप्रतिपादक कल्पाकल्पं, तथा कल्पनं कल्पःस्थविरकल्पादिः तत्प्रतिपादकं श्रुतं २, तत् पुनः द्विभेदं-चुल्लकप्पसुयं महाकप्पसुर्य, एकमल्पग्रन्थमल्पार्थ च, द्वितीयं महाग्रन्थं महार्थ च, शेषभेदाः प्रायो निगदसिद्धास्तथापि लेशतोऽप्रसिद्धतरान् व्याख्यास्यामः, जीवादीनां प्रज्ञापन प्रज्ञापना बृहत्तरा महाप्रज्ञापना, प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमाद, प्रमादस्वरूपं महामन्धनप्रभवाविध्यातदुःखानलज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचि
3454545454545555
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238