Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 208
________________ सादिसपर्य नन्दी- कथं केवलपर्यायपरिमाणतुल्यं भवेद्?, उच्यते, नन्वत्राप्यपर्यवसितश्रुताधिकारादकारायेव गम्यते, अथ मतिः- 'सव्वजीवाणंपिय णं हारिभद्रीय अक्खरस्स अणतभागो णिच्चुग्धाडिओ'त्ति सर्वजीवग्रहणान्न तच्छुतं, यतः समस्तद्वादशांगविदां तत् समस्तमिति, यद्येवं वृत्ती केवलस्यापि न सर्वजीवानामेवानन्तभागोऽवतिष्ठते, सर्वज्ञसद्भावात्, अतो न तत् केवलाक्षरमपि, कस्यासावनन्तभागोऽस्तु , तथा अविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणादपिशब्दाद्वा केवलिनो बिहायान्येषां अनन्तभागो गम्यते, अत एव किं न श्रुतात्मकम॥८८॥ क्षरमंगीकृत्य समस्तद्वादशांगविदो विहायान्येषां अनन्तभागो गम्यते, तस्मात् स्वपरपर्यायभेदादुभयमप्यविरुद्धामति, तथाऽप्यत्रा पर्यवसितश्रुताधिकारादकाराद्येव न्यायानुपाति, तत् पुनरनन्तपर्यायम् , इह अ अ अ इत्यकार उदात्तोऽनुदात्तः स्वरितः,स सानुना६ सिको निरनुनासिकश्च, एवं दीर्घः प्लुतः, एवं तावदष्टादशप्रभेदं अवर्ण ब्रवते,एवं यावतः केवल एवाकारो लभते सानुनासिकादीन है तथाऽन्यवर्णसहितो वा तेऽप्यस्य स्वपर्यायाः,ते चानन्ताः,कथम्?, अभिलाप्यबाह्यनिमित्तभेदात्,तस्य च परमाणुद्ध्यणुकादिभेदेनानन्त त्वात् ,ध्वनेश्च तथा तथाभिधायकत्वपरिणामे सति तत्तदर्थप्रतिपादकत्वादिति, सांकेतिकशब्दार्थसम्बन्धवादिमतमप्यावश्यके दिनयाधिकारे विचारयिष्यामः,ततश्चैते स्वपर्यायाः,शेषास्तु सर्व एव घटादिपर्यायाःपरपर्याया इति,ते पुनः स्वपर्यायेभ्योऽनन्तगुणाः, | आह-स्वपर्यायाणां तावत्पर्यायता युक्ता, घटादिपर्यायास्तु विभिन्नवत्वाश्रितत्वात् कथं तस्येति व्यपदिश्यन्ते?, उच्यते, स्वपर्यायविशेषणोपयोगात्, इह ये यस्य स्वपर्यायविशेषणतयोपयुज्यन्ते ते तस्य पर्यायतया व्यपदिश्यन्ते,यथा घटस्य रूपादयः, उपयुज्यन्ते चाकारस्वपर्यायाणां विशेषणतया घटादिपर्यायाः, तानन्तरेण स्वपर्यायव्यपदेशाभावात्, तथा वस्तुस्थित्यापि च घटादिपर्याया अभावरूपेणाकारस्य व्यवस्थितत्वाद् घटादिपर्यायाणां अकारपर्यायतायामविरोध इति, इयमत्र भावना-घटादिपर्यायाणामनन्तत्वा-| 44-%%AHARACARRC ॥८८॥

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238