________________
नन्दी
हाारभद्रीय
वृत्ती
॥७८॥
CACAAAAAAAAAA
'से किं तमित्यादि, ॥ (४०-१८९)॥ अथ किं तत् संज्ञिश्रुतं?, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी तस्य श्रुतं २ त्रिविधं | संज्ञिश्रुतं | प्रज्ञप्त, संज्ञिन एव त्रिभेदत्वात् , त्रिभेदतामेव दर्शयन्नाह-तद्यथा-कालिक्युपदेशेन हेतूपदेशेन दृष्टिवादोपदेशेन. 'से किंत'मित्यादि, अथ कोऽयं कालिक्युपदेशन, इहादिपदलोपाद्दीर्घकालिकी कालिक्युच्यते, संज्ञेति प्रकरणाद्गम्यते, उपदेशनमुपदेशः, कथनमित्यर्थः, दीर्घकालिक्याः सम्बन्धी दीर्घकालिक्या वा मतेनोपदेशो दीर्घकालिक्युपदेशस्तेन यस्य प्राणिनः अस्ति-विद्यते ईहा-शब्दाद्यवग्रहणोत्तरकालमन्वयव्यतिरेकधर्मालोचनचेष्टेत्यर्थः, तथा अपोहो-व्यतिरेकधर्मपरित्यागेनान्वयधर्माध्यासेनावधारणात्मकः प्रत्यय इति भावना,यथा शब्द इति,तथा मार्गणा विशेषधर्मान्वेषणारूपा संविदित्यर्थः,यथा शब्दः सन् किं शाङ्खः किंवा शाङ्ग इति,तथा गवेषणा व्यतिरेकधर्मस्वरूपालोचना,यथा खरादय एवंभूता इति,तथा चिन्ता अन्वयधर्मपरिज्ञानाभिमुखा चेष्टा, यथा मधुरत्वादयस्त्वेवंभूता | इति,तथा विमर्षः त्याज्यधर्मपरित्यागेनोपादेयधर्मग्रहणाभिमुख्य,यथान शाङ्गः,प्रायोऽयं मधुरत्वादियोगाच्छाङ्ख इति, सेणं सन्नीति | लब्भति'त्ति स प्राणी णमिति वाक्यालङ्कारे संज्ञीति लभ्यते, मनःपर्याप्त्या पर्याप्तोऽवग्रहादिमतिज्ञानसम्पत्समन्वित इत्यर्थः, अथवा यस्यास्ति ईहा-किमेतदिति चेष्टा इदमित्यवगमोऽपोहः अवगतार्थाभिलाषे तत्प्रार्थना मार्गणा तदप्राप्तौ च निपुणोपाय : तोऽन्वेषणं गवेषणा प्रयुक्तप्रतिहतोपायस्योपायान्तरचिन्तनं चिन्ता तद्विषय एवोपायालोचनात्मकः प्रत्ययो विमर्षः स संज्ञीति
॥७८॥ लभ्यते,अयं च गर्भव्युत्क्रान्तिकः पुरुषादिरौपपातिकश्च देवादिरेव मनःपर्याप्तिप्रयुक्तो विज्ञेयः, यथोक्तविशेषणकलापसमन्वितत्वात् , न पुनरन्यस्तद्विशेषणविकल इति, आह च-'जस्से' त्यादि,यस्य नास्ति ईहाऽपोहो मार्गणा गवेषणा चिन्ता विमर्षः सोऽसंझीति लभ्यते, अयं च सम्मूच्छिमपंचेन्द्रियविकलेन्द्रियादिज्ञेयः, अल्पमनोलब्धित्वादभावाच्च, 'सेत'मित्यादि,सोऽयं कालिक्युपदेशेन ।
SEHSAE3