________________
नन्दीहारिभद्रीय "वृत्तौ ॥ ७९ ॥
'से किं तमित्यादि, अथ कोऽयं हेतूपदेशेन ?, हेतुः कारणं स एव उपदेशः हेतोरुपदेशः हेतूपदेशस्तेन, कारणोपदेशेनेत्यर्थः, यस्य प्राणिनोऽस्ति विद्यतेऽभिसन्धारणम्-- अव्यक्तेन विज्ञानेनालोचनं तत्पूर्विका तत्कारणिका करणशक्तिः क्रियाशक्तिः, करणं-क्रिया शक्ति:- सामर्थ्य, अव्यक्तविज्ञानालोचननिबन्धनचेष्टा सामर्थ्यमिति भावना, स प्राणी णमिति वाक्यालंकारे संज्ञीति लभ्यते, अयं च द्वीन्द्रियादिः सम्मूच्छिमपंचेन्द्रियावसानो विज्ञेयः तथाहि कृम्यादयो ऽपीष्टेष्वाहारादिषु प्रवर्त्तन्ते अनिष्टेभ्यश्च निवर्त्तन्ते स्वदेहपरिपालनार्थ, प्रायो वर्त्तमान एव, न चासंचिन्त्येष्टानिष्टविषयः प्रवृत्तिनिवृत्तिसम्भव इति संज्ञी, उक्तलक्षणविकलस्त्वसंज्ञी, तथा चाह -'यस्ये' त्यादि, यस्य नास्ति अभिसन्धारणपूर्विका करणशक्तिः सोऽसंज्ञीति लभ्यते, अयं चैकेन्द्रियपृथिव्यादिरवसेयो, मनोलब्धिरहितत्वाद, आह-यदि स्वल्पसंज्ञायोगाद्विकलेन्द्रियादयः संज्ञिन इष्यन्ते पृथिव्यादयः किं नेष्यन्ते ? यतस्तेषामपि दशविधाः संज्ञा विद्यन्त एव, तथा चोक्तं परमगुरुभिः- “कति णं भंते! एगिंदियाणं सन्नाओ पनत्ताओ?, गोयमा दस, तंजहा- आहारसंना भयसन्ना मेहुण० परिग्गहसन्ना कोह०माण ० माया ० लोभ० ओहसन्ना लोगसन्ना य" त्ति उपयोगमात्रमोघ संज्ञा लोकसंज्ञा स्वच्छ|न्दविकाल्पिता विश्वगमा लौकिकैराचरिता, तद्यथा - अनपत्यस्य न सन्ति लोका इत्यादि, अन्ये तु व्याचक्षते - ओघसंज्ञा दर्शनोपयोगो लोकसंज्ञा ज्ञानोपयोग इति, अत्रोच्यते, इहौघसंज्ञा स्तोकत्वाद् आहारा दिसंज्ञाश्चानिष्टत्वान्नाधिक्रियते, यथा न कार्षापणमात्रेण धनवानभिधीयते, मूर्त्तिमात्रेण वा रूपवानिति, किन्तु यथा प्रभूतरत्नादिसमन्वितो धनवान् प्रशस्तमूर्त्तियुक्तश्च रूपवानभिधीयते, एवं महती शोभना च संज्ञा यस्यास्त्यसौ संज्ञीति, विशिष्टतरा च विकलेन्द्रियसंज्ञेत्यलं विस्तरेण, 'सेत' मित्यादि, सोऽयं हेतूपदेशन । 'से किं त' मित्यादि, अथ कोऽयं दृष्टिवादोपदेशेन ?, दृष्टिः-दर्शनं वदनं वादः दृष्टीनां वादः दृष्टिवादः तदुपदेशेन तन्मतापेक्षया
संज्ञिश्रुतं
॥ ७९ ॥