________________
संज्ञिश्रुतं
नन्दीहारिभद्रीय
वृत्ती
॥८
॥
| संज्ञिश्रुतस्य क्षयोपशमेन संज्ञीति लभ्यते, अयमत्र भावार्थः-संज्ञानं संज्ञा तद्योगात् संज्ञी तस्य श्रुतं संज्ञिश्रुतं, इदं सम्यक् श्रुतमेव,
अन्यथा संज्ञानाभावात् ,न हि मिथ्यादृष्टः संज्ञानमस्ति, हिताहितप्रवृत्तिनिवृत्त्यभावाद् , रागादिप्रवृत्तेः, उक्तं च-"तज्ज्ञानमेव न भवति | यस्मिन्नुदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥" सम्यग्दृष्टिस्तु तन्निग्रहपरत्वाद्वीतराग
सम एव, उक्तंच- "कलुसफलेण ण जुज्जइ किं चित्तं तत्थ जं विगतराओ । संतवि जो कसाए णिगिण्हती सोवि तत्तुल्लो ॥१॥" |त्तीत्यादि, अलं प्रसंगेन, तदित्थंभूतस्य संज्ञिश्रुतस्य क्षयोपशमेन सता संज्ञीति लभ्यते, अयं च सम्यग्दृष्टिरेव क्षायोपशमिकज्ञानयुक्तो रागादिनिग्रहपरः, तदन्यस्त्वेसंज्ञी, यत आह ग्रन्थकारः--असंज्ञिश्रुतस्य क्षयोपशमेनासंज्ञीति लभ्यते, 'सेत'मित्यादि, सोऽयं | दृष्टिवादोपदेशेन, एवं संज्ञिनस्त्रिभेदभिन्नत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविधमेवेति । अत्राह-कालिक्युपदेशेनेत्यादि क्रमाकिमर्थी, उच्यते, इह प्रायः सूत्रे यत्र क्वचित् संज्ञिग्रहणं तत्र दीर्घकालिक्युपदेशेन समनस्कसंज्ञिपरिग्रह इति प्रथमं तदुपन्यासः, अप्रधानत्वाच्चेतरयोः अन्ते च प्रधानाभिधानमिति न्याय्यं, 'सेत'मित्यादि, तदेतत् संज्ञिश्रुतं, असंज्ञिश्रुतं तु प्रतिपक्षाभिधानादेव प्रतिपादितं, तदेतदसंज्ञिश्रुतम् ।। | 'से किंत' मित्यादि ॥(४१- १९१॥ अथ किं तत् सम्यक्श्रुतं?,२ यदिदं प्रणीतमिति सम्बन्धः, तत्राशोकायष्टमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः, तथा चोक्तं-"अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च। भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १॥ तैरर्हद्भिः, तत्र शुद्धद्रव्यास्तिकनयमतानुसारिभिःअनादिशुद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते,यथोतम्-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतः । ऐश्वयं चैव धर्मश्च, सहसिद्धं चतुष्टय॥१॥" इत्यादि, बहवश्व कैश्चिदिष्यन्ते, तेपि