________________
नन्दी
सम्यक्श्रुतं
वृत्ती
च स्थापनादिद्वारेण पूर्जाऽहत्वादहन्तो भवन्त्येव, अतो- भगवद्भिः, भगः खलु समग्रैश्वर्यादिलक्षणः, यथोक्तं-"ऐश्वर्यस्य समग्रस्य, हारिभद्रीय / रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतींगना ॥१॥" भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, न चानादि-
शुद्धानां समग्र रूपमुपपद्यते,अशरीरित्वात्,शरीरस्य चरागादिकार्यत्वात् तेषां च तदभावादिति, स्वेच्छानिर्माणतः समग्रशरीरसम्भवा॥८१॥
तुल्यतामेवाशंक्याह-उत्पन्नज्ञानदर्शनधरैः, न च तेऽनादिशुद्धाः उत्पन्नज्ञानदर्शनधरा'ज्ञानमप्रतिघ यस्ये' त्यादिवचनविरोधात् ,एवं शुद्धद्रव्यास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थोऽयं ग्रन्थः, अधुना पर्यायास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थमाह-'त्रैलोक्यनिरीक्षितमहितपूजितैः' निरीक्षिताश्च महिताश्च पूजिताश्चेति समासः, त्रैलोक्येन निरीक्षितमहितपूजिता इति विग्रहः,विशेषणसाफल्यं पुनरित्थमवसेयं त्रैलोक्यग्रहणाद् भवनव्यन्तरनरविद्याधरज्योतिष्कवैमानिकपरिग्रहः,निरीक्षिता भक्तिननैर्मनोरथदृष्टिभिदृष्टाः, महिता यथाऽवस्थितान्यासाधारणगुणोत्कीतनलक्षणेन भावस्तवन, पूजिताः सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेनेति, तत्र सुगतादयोऽपि पर्यायास्तिकनयमतानुसारिभित्रलोक्यनिरीक्षितमहितपूजिता इष्यन्त एव, आह च स्तुतिकार:
"देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥१॥” इत्यादि, अत आह-'अतीतप्रत्युव त्पन्नानागतझैः' न चैकान्तक्षणिकवादिना यथोक्तविशेषणसम्भवः, अतीतानागताभावात् , तथा चागमः, "ण णिहाणगया भग्गा
पुंजो णत्थि अणागते । णिव्वुया णेव चिट्ठति आरग्गे सरिसोवमा ॥१॥" असतां च ग्रहणायोगादित्याद्यत्र बहु वक्तव्यं, न च | तदुच्यते, गमनिकामात्रत्वादस्य प्रारम्भस्य, व्यवहारनयमतानुसारिभिस्तु कश्चिदतीतानागतार्थग्राहिण इष्यन्त एव ऋषयः, यथाऽऽहुरेके- "ऋषयः संयतात्मानः, फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् ॥ १॥ अतीतानागतान् भावान् ,
त्र सुगतादयोऽपि वयस्थतान्यासाधारणगुणाकाव्यन्तरनरविद्याधरज्योतिसमासः,
॥८१॥