________________
लब्ध्य
क्षरं
नन्दीहारिभद्रीय
अनक्षरश्रुतं
वृत्ती
॥७७॥
माह, लब्ध्यक्षरं समुत्पद्यते, कुतश्चिच्छब्दादेनिमित्तात् सञ्जाततदावरणकर्मक्षयोपशमस्य लब्ध्यक्षरं समुत्पद्यते-अक्षरोपलम्भः सञ्जायते, एतदुक्तं भवति--शब्दादिग्रहणसमनन्तरमिन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि शाङ्क इत्याद्यक्षरानुषक्तं विज्ञानमुत्पद्यते, तच्चानेकप्रकारं, तद्यथा-श्रोत्रेन्द्रियलब्ध्यक्षरमित्यादि, इह श्रोत्रेन्द्रियेण शब्दश्रवणे सति शाङ्खोऽयमित्याद्यक्षरद्वयलाभः श्रोत्रेन्द्रियनिमित्तत्त्वाच्छोडेन्द्रियलब्ध्यक्षरामिति, एवं शेषेष्वपि भावनीयं, 'से त' मित्यादि, तदेतल्लब्ध्यक्षर, 'से त' मित्यादि, तदेतदक्षरात्मकं अक्षरं च तदिति वा श्रुतं चाक्षरश्रुतं, तत्र संज्ञाव्यञ्जनाक्षरे द्रव्यश्रुतं, लब्ध्यक्षरं पुनर्भावश्रुतं, लब्धेर्विज्ञानरूपत्वात् ॥ " से किं त' मित्यादि, अथ किं तदनक्षरश्रुतम् ?, २ अनक्षरः शब्दः कारणं कार्यमनक्षरश्रुतं अनेकविधम्--अनेकप्रकार | प्रज्ञप्तम् , तद्यथा___ऊससियंगाहा ॥ (*८१-१८७)॥ उच्छ्वसनमुच्छ्वसितं, भाव निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितं, निष्ठीवन निष्ठ्यूतं, कासनं कासित, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, चशब्दः समुच्चयाथे एव, अस्य व्यवहितः सम्बन्धः, कथा, संटित |चानक्षरं श्रुतमिति वक्ष्यामः,निःसङ्घनं निःसद्धिति, अनुस्वारवदनुस्वारं, अक्षरमपि यदनुस्वारवदुच्चार्यते, 'अनक्षर'मित्येतदुच्छ्व| सिताद्यनक्षरश्रुतमिति, सेण्टनं सेटितं तत् सेंटितं चानक्षरश्रुतमिति, इदं चोच्छ्वसितादि द्रव्यश्रुतमात्रं ध्वनिमात्रत्वात् , अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् , आह-यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं नोच्यते, येनोच्छ्वसितायेवोच्यते इति, अत्रोच्यते, रूढ्या, अथवा श्रूयत इति श्रुतं, अन्वर्थसंज्ञामधिकृत्योच्छ्वसितायेव श्रुतमुच्यते| न चेष्टा, तदभावादिति, अनुस्वारादयस्त्वर्थगमकत्वादेव श्रुतमिति, ‘से त' मित्यादि, तदेतदनक्षरश्रुतम् ।
SHRSHISHASHA
इच्छया भुतं, चशब्द अक्षरमपि यदनुस्वायतमात्रं
॥७७॥