SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 1 वृत्ती नन्दी- वेपि शेषभेदानामुपन्यासोऽज्ञातज्ञापनार्थः, न च भेदद्वयादेवाव्युत्पन्नमतीनां शेषभेदावगम इति प्रतीतमेतद् , अलं विस्तरेण ॥ श्रुतभेदाः हारिभद्राय साम्प्रतमुपन्यस्तश्रुतभेदानां स्वरूपमनवगच्छन्नाचं भेदमधिकृत्य प्रश्नसूत्रमाह 18 अक्षरश्रुतं 'से किं त' मित्यादि ॥(३९-१८७)।। अथ किं तदक्षरश्रुतं, 'क्षर संचलने' न क्षरतीत्यक्षरं, तच्च ज्ञानं चेतनेत्यर्थः, जीवस्वा | ॥७६॥ भाव्यादनुपयोगेऽपि तत्त्वतो न प्रच्यवत इत्यर्थः, इत्थंभूतभावाक्षरकार्यकारणत्वादकाराद्यप्यक्षरमुच्यते, तत्राक्षरात्मकं श्रुतमक्षरश्रुतं ४ द्रव्याक्षराण्यधिकृत्य, अथवाऽक्षरं च तत् श्रुतं चाक्षरश्रुतं, भावाक्षरमधिकृत्य, इदमक्षरश्रुतं त्रिविधं प्रज्ञप्तं, अक्षरस्यैव त्रिभेदत्वात, त्रिभेदतामेच दर्शयन्नाह- संज्ञाक्षरं १ व्यंजनाक्षरं २ लब्ध्यक्षरं ३, 'से किं तमित्यादि अथ किं तत् संज्ञाक्षरं ?, संज्ञान संज्ञा, P संज्ञायते वा अनयेति संज्ञा, तन्निबन्धनमक्षरं संज्ञाक्षरं, इदं च अक्षरस्य अकारादेः संस्थानस्याकृतिः संस्थानाकारो, यतस्तनिवन्ध| नैवैतेष्वकारादिसंज्ञा प्रवर्त्तते इति, एतच्च ब्राहम्यादिलिपीविधानादनेकविधं, 'सेतं सन्नक्खरं तदेतत् संज्ञाक्षरं ॥ ____ 'से किं त' भित्यादि, अथ किं तद् व्यञ्जनाक्षरं ?, व्यज्यतेऽनेनार्थः प्रदीपेनेत्र घट इति व्यञ्जनं तच्च तदक्षरं च व्यञ्जना क्षरं, तच्चेह सर्वमेव भाष्यमाणमकारादि हकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा चाह सूत्रकार:-अक्षरस्याकारादेः व्यञ्जना18| भिलापः शब्दोच्चारणं, 'से त' मित्यादि, तदेतद्वन्यजनाक्षरम् ॥ ___'से किंत' मित्यादि, अथ किं तल्लब्ध्यक्षर?, लब्धिः-क्षयोपशमः उपयोग इत्यर्थः, 'अक्खरलद्धीयस्स' इत्यादि, इहाक्षरे ला॥७६ ॥ पलान्धर्यस्य सोऽक्षरलाब्धकस्तस्य, इन्द्रियमनउभयविज्ञानसमुत्थघटाद्यक्षरलब्धिसमन्वितस्येत्यर्थः, अनेन विकलेन्द्रियादिव्यवच्छेद
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy