Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 195
________________ नन्दी शृणोति नियमेन पराघाते सति, यानि शब्दद्रव्याण्युत्सृष्टद्रव्याभिघाते वासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः, कुतः, हारिभद्रीय भाषाश्रुतिः वृत्ती | तेषां अनुश्रेणिगमनात प्रतिघाताभावाच्च, अथवा विश्रेणिस्थित एव विणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनाद्वीमसेनः। मसनमतिपर्यासेनः सत्यभामा भामेति यथेति गाथार्थः ॥ साम्प्रतं विनेयगणसुखप्रतिपत्तये मतिज्ञानपर्यायशब्दानभिधित्सुराह याश्च ॥ ७५॥ ईहामाहा (८०-१८४॥ ईहनमीहा, सदर्थपर्यालोचनचेष्टेत्यर्थः, अपोहनमपोहो, निश्चय इत्यर्थः, विमर्षण विमर्षः, ईहा पायमध्यवर्ती प्रत्ययः, तथाऽन्वयधर्मान्वेषणा मार्गणा, चः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेपणा, तथा संज्ञानं संज्ञा| व्यंजनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थालम्बनप्रत्ययः, मननं मतिः-कथंचिदर्थपरिच्छित्तादवपि सूक्ष्मधर्मालोचनरूपा बुद्धिरित्यर्थः, तथा प्रज्ञानं प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थितधर्मालोचनरूपा संविदिति भावना, सर्वमिदमाभिनियोधिक मतिज्ञानमित्यर्थः, एवं किंचि दाढ़ेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एते | पर्यायशब्दा इति गाथार्थः।। 'सेत'मित्यादि, तदेतदाभिनिबोधिकज्ञानमिति ।। साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासयाह 'सेकिंत'मित्यादि ।। ३८-१८०)॥ अथ किं तत् श्रुतज्ञानं , श्रुतज्ञानमुपाधिभेदाच्चतुर्दशविध प्रज्ञप्त, तद्यथा- अक्षरश्रुतं १ अनक्षरश्रुतं २ संज्ञिश्रुतं ३ असंज्ञिश्रुतं ४ सम्यश्चतं ५ मिथ्याश्रुतं ६ सादि ७ अनादि ८ सपर्यवासितं ९ अपर्यवसितं १० गमिक ॥७ ॥ ११ अगमिकं १२ अंगप्रविष्टं १३ अनंगप्रविष्टं १४, एतेषां च भेदानां स्वरूपं यथावसरं वक्ष्यामः । अक्षरश्रुतानक्षरश्रुतभेदद्वयान्त Aika REASRA-KRITRAKAR

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238