Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 189
________________ नन्दीहारिभद्रीय मल्लकदृष्टान्तः वृत्ती AAAAAA वग्रहस्य, अत्रार्थावग्रहात् पूर्वः सर्वो व्यंजनावग्रह इति, ततो ईहं पविसतीत्यादि सुगमं यावत् संखेज्जं वा असंखेज्जं वा कालंति । अत्राह-सुप्तमंगीकृत्य युज्यते अयं न्यायः, जाग्रतस्तु शब्दश्रवणसमनन्तरमेव अवग्रहहाव्यतिरेकेणैवापायज्ञानमुत्पद्यते, तथोपलम्भात् , न चैतदनार्ष, यत आह सूत्रकारः-से जहाणामए' इत्यादि, अथवा यदुक्तं न पुनरेवं जानाति क एष शब्दादि, किं तर्हि ?, नामजात्यादिकल्पनारहितं गृहातीत्येतदयुक्तं, यत एवमागमः 'से' इत्यादि, अथवा सुप्तप्रतिबोधकमल्लकदृष्टान्ताभ्यां व्यंजनार्थावग्रहयोः सामान्येन स्वरूपमभिधाय अधुना मल्लकदृष्टान्तेनैव प्रतिपादयन्नाह-'से जहा' इत्यादि, तद्यथा नाम कश्चित् ला पुरुषः अव्यक्तं शब्द शृणुयात् , अव्यक्तमित्यनिर्देश्यस्वरूपं नामादिकल्पनारहितमित्यनेनावग्रहमाह, तस्य च श्रोत्रेन्द्रियसम्ब न्धिनो व्यंजनावग्रहपूर्वकत्वात् व्यंजनावग्रहं च, आह-न छत्रैवं क्रम उपलभ्यते, किंत्वक्षेपेण शब्दापायज्ञानमेव वेद्यते, सूत्रेऽव्यक्तमिति शब्दविशेषणं कृतमतोऽव्यक्तं सन्दिग्धं पुरुषादिशब्दभेदेन शब्दं शृणुयादिति न्याय्यं, तथा चोत्तरसूत्रमप्येतदेवाह-'तेणं सद्देत्ति उग्गहिते तेन-श्रोत्रा शब्द इत्यवगृहीतं 'णो चेवणं जाणति के वेस सद्दादि' न पुनरेवं जानाति-क एष पुरुषादि समुत्थानामन्यतमः शब्द इति, आदिशब्दाद्रसादिष्वप्ययमेव न्याय इति ज्ञापयति, 'ततो ईह पविसती' त्याद्यपि संबद्धमिति, ५. नैतदेवम् , उत्पलपत्रशतव्यतिभेददृष्टान्तेन कालभेदस्य दुर्लक्षत्वाद् अक्षेपेण शब्दापायज्ञानानुपपत्तेः, यच्च तेन शब्द इत्यवगृहीत| मित्युक्तम् अत्र शन्द इति भणति वक्ता-सूत्रकार, इतिकरणनिर्देशात् , शब्दमात्र वा शषविशेषविमुखं, न तु शब्दबुध्ध्या, तस्यैवापायप्रसंगाद् , अवग्रहादिश्रुतव्यतिरेकेण च मतिज्ञानानुत्पत्तेः, तथा चाह-'णो चेव ण' मित्यादि, न पुनरेवं जानाति क एष शब्दादिरर्थः, सामान्यमात्रप्रतिभासनाद् , आह च भाष्यकारः-"अव्वत्तमणिद्देस सरूवणामादिकप्पणारहितं । जदि एवं जं तेणं | 'शब्दं शृणात्विक्षेपेण शमाह, तस्य च R-555 ॥६९॥

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238